________________
पञ्चमं प्रकरणम् ।
२१६ तृत्वमपीति कर्मकर्तृविरोधः शक्य इत्याह-कर्मकर्तृविरोध इति । तत्र हेतुः-सर्वसम्मतेरिति । सर्ववादिना देहव्यतिरिक्ताद्यनुमानविषयतयाऽऽत्मनि कर्मकर्तभावस्य सम्प्रतिपन्नत्वादिति सार्द्धस्यार्थः ॥ १२५ ॥
न वैषम्यमिहाऽप्यस्त्युपाधिभेदाद्वयोर्भिदा॥१२६॥
अथ मतम्-नानुमानादी विषयस्य कर्मकारकत्वम्, अतीतादि. वस्त्वनुमाने विषयस्याविद्यमानस्य ज्ञानजनकत्वायोगाद् । विषयत्वन्तु अविद्यमानस्यापि कथञ्चित्सम्भविष्यति, ज्ञानस्य तदाकारत्वात् । ततोऽनुमानादा कर्तृत्वमेवात्मनः, प्रत्यक्ष तु विषयस्य ज्ञानजनकतया कर्मकारकत्वं ततो विरोधस्तदवस्थ इति तत्राह-न वैषम्यमिति । इह प्रत्यक्षस्थलेऽपि उपाधिभेदाद् द्वयोः कर्मकोंर्भिदाऽस्ति, ततो न वैषम्यमिति योजना। अन्तःकरणविशिष्टतयैवात्मनः प्रत्यभिज्ञातृत्वम्, पूर्वापरकालविशिष्टतया च प्रत्यभिज्ञेयत्वम्, इत्युपाधिभेदेन विरोधाभावाद्युक्तमेवोक्तम्-यत्संविदो नित्यत्वं प्रत्यभिज्ञानादित्यर्थः। तथा च स्वप्रकाशस्याऽद्वितीयस्य नित्यस्य संविद्रूपस्य विज्ञानस्य साक्षिणः स्वीकारान्नास्मन्मतं विज्ञानवादिमतं कटाक्षेणापि वीक्षितुं क्षमते इति भावः ॥ १२६ ॥
न संविद्विषयौ तत्राऽभिन्नौ वैरूप्यताश्रयौ। प्रत्यक्त्वादनुवृत्तत्वात् संविन्नित्या चिदद्वया ॥१२॥ पराक्त्वाद् विषया भिन्ना व्यावृत्ताश्चेति तद्भिदा।
एवं संविदा नित्यत्वं प्रसाध्य विषयसंविदोर्भेदमाह-नेति । वैरूप्यताश्रयावित्युक्तं तद्विवृणोति-प्रत्यक्त्वादिति। अस्मत्प्रत्ययगोचरतया सर्वान्तरत्वेन च विषयविरुद्धस्वभावत्वेन च संविदः प्रत्यक्त्वं तस्मा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com