SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २१८ प्रत्यकूतत्त्वचिन्तामणी व्यवहारदशायां ते स्थायिनः सत्यबाधिताः । इत्येवं वदति स्वस्थो महदन्तरमस्त्यतः ॥ १२३ ॥ स्वमते व्यवहारदशायां विषयाणां स्थायित्वमप्याह — व्यवहारेति । व्यवहारदशायां बाधाभावात्तेषां स्थायित्वं तत्त्वदर्शी तु इत्येवं वदति । तत्र हेतु: स्वस्थ इति । क्षणिकवादी भ्रान्तचेतस्तया वदतु प्रन्यथा । तत्वदर्शी तु स्वस्थचित्ततया यथार्थमेव वदतीत्यर्थः । श्रतस्तयोर्महदन्तरमस्तीति योजना ।। १२३ ।। सर्वत्र प्रत्यभिज्ञानात् संविदेकाऽद्वितीयका । विषयोपाधिको भेदावभासस्तत्र न स्वतः ॥ १२४ ॥ एतदेव विशदयति — सर्वत्रेति । श्रद्वितीयं हि संवेदनं सर्वत्र प्रत्यभिज्ञानात् । घटसंवित्पटसंविदिति भेदावभासस्तु विषयोपाधिको न स्वाभाविक इत्यर्थः ॥ १२४॥ अद्वितीये मते संविन्नित्या साक्ष्यात्मिका चितिः । तथात्वं प्रत्यभिज्ञानाद्विशिष्टे संस्कृतिर्मता ॥ १२५ ॥ कर्म्मकर्तृ विरोधोऽपि न शङ्क्यः सर्वसम्मतेः संविदा नित्यत्वं साधयति-- श्रद्वितीयेति । नन्वस्तु तस्या एकत्वम्, नित्यत्वन्तु कथम् ? इत्यत आह- तथात्वमिति । द्वितीयमते संविदा नित्यत्वश्च सोऽहमिति प्रत्यभिज्ञानात् । ननु नित्यस्वयंप्रकाशे विज्ञानात्मनि संस्कारजन्यज्ञानस्यासम्भवात्कथं प्रत्यभिज्ञा स्यात् ? इत्याशङ्क्याह - विशिष्ट इति । केवले चिदात्मनि जन्यज्ञानतत्संस्कारयोरसम्भवेऽप्यन्तःकरणविशिष्टे तत्सम्भवात् प्रत्यभिज्ञायाः सिद्धेः । न च विशिष्टस्य प्रत्यभिज्ञाविषयत्वे तस्यैव प्रत्यभिज्ञा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy