SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ पश्चर्म प्रकरणम् । २१७ स क्षणिकान्यनेकानि विज्ञानानि च सौगतः। न तेभ्यो विषया भिन्ना इत्याह भ्रान्तचेतनः॥१२१॥ विज्ञानवादिमतं विवेचयति-स इति । इत्थं विज्ञानवादी मनुते "सहोपलम्भनियमादभेदो नीलतद्धियोः । अन्यच्चत्संविदो नीलं न तद्भासेत संविदि ॥ १ ॥ भासते चेत्कुतः सर्व न भासेतैकसंविदि । नियामकं न सम्बन्धं पश्यामो नीलतद्धियोः ।। २॥" ( वि० प्र० सं० क्षणिकत्वनिरासप्र० पृ० ७५) इति तन्मतं स्वमताद् विविच्य दर्शयन्नाह–स इति ॥ १२१ ।। तत्त्वदर्शी तु विज्ञानं नित्यमद्वैतमक्षरम् । तवाऽध्यस्ताश्च विषयाः पृथगर्थक्रियाक्षमाः॥१२२॥ तन्मतात्स्वमतस्य वैलक्षण्यं दर्शयति-तत्त्वदर्शी त्विति । न ज्ञानं क्षणिकम, प्रतिक्षणं स्वरूपभेदानवभासात् । प्रतिसादृश्याद्भेदानवभास इति चेत्, न; विकल्पासहत्वात् । किं संविद्धर्मो ज्ञानान्तरगम्यश्च भेदः ? किं वा संवित्स्वरूपभूतस्तयैव संविदा वेद्यः ? प्राधेऽपि धर्मिप्रतियोगिभूतयोः संविदाः संविदन्तराविषयत्वे तयोर्मेंदग्रहो न सिद्ध्येत् । विषयत्वे वा धर्मिप्रतियोगिभेदाख्यत्रितयमपि भेदसंवेदने कल्पितं तदभिन्नञ्च स्यात् । द्वितीये संवित्स्वरूपभूतो भेदः साहश्यानावभासते इत्युक्ते संविदेव नावभासते इत्युक्तं स्यात् । ततो जगदान्ध्यप्रसङ्गः। अथापि संविदा सादृश्यनिर्वाहाय भेदोऽङ्गोक्रियत इति चेत्, न; सादृश्यस्य मानहीनत्वात्, ऐक्यावभासविरुद्धत्वाच्च, ऐक्यबोधिकायाः प्रत्यभिज्ञायाः प्रामाण्याच्चेति । तस्माद्विज्ञानं नित्यमेकमेवाद्वितीयम् । तत्र विज्ञाने विषयाः शब्दादयोऽध्यस्ता व्यवहारदशायां पृथक पृथगर्थक्रियासमर्था भवन्तीत्यर्थः ॥ १२२ ॥ २८ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy