________________
तृतीयं प्रकरणम् ।
११५ परमात्मतत्त्वे प्रमाणमस्ति ? न वा ? अस्ति चेत्तर्हि प्रमाणप्रकाश्यत्वेन जडत्वादनात्मताऽऽत्मनि स्यादिति योजना ॥४॥
न चेत्यमाणं परमात्मनीष्टं
तदाऽनृतत्वाच्छशशृङ्गकल्पः। स्यात् प्रत्यगात्मा यत इष्यते न
प्रमाणशून्यस्य च सत्त्वमीषत् ॥ ५॥ न चेदिति । एतदोषपरिहाराय तत्र प्रमाणं नेष्टं चेत्, तवेति शेषः । तदा प्रमाणरहितस्यानृतत्वादलीकत्वात् शशविषाणतुल्य एव प्रत्यगात्मा स्यात् । कुतः ? इत्यत आह-यत इति । यस्मात्प्रमाणशून्यस्य । चोऽप्यर्थे । ईषदपि सत्त्वं नेष्यते प्रामाणिकैरिति शेषः ॥ ५ ॥
भवेत्तवोक्तं यदि मानशून्य
तयाऽऽत्मनः स्यादनृतत्वमस्य । किमर्थमात्माऽयमपेक्षते त
त्प्रमाणमेतद्वद युक्तियुक्तम् ॥६॥ स्वप्रकाशतयैव सिद्धे प्रत्यक्तत्त्वे न त्वदुक्तविकल्पावकाशइति वक्तुं सिद्धान्ती भूमिकामारचयति-भवेदिति । त्वदुक्तविकल्पावकाशस्तदा भवेद, यद्यस्य नित्यापरोक्षरूपस्यात्मनो मानशून्यतया स्यादलीकत्वम् । तदेवातिदुर्घटम् । अयमात्मा किमर्थ तत्प्रमाणं लोकसिद्धप्रमाणशब्दवाच्यमपेक्षते ? त्वमेतन्मत्पृष्टस्योत्तरं युक्तियुक्तं वदेति योजना ॥ ६॥ स्वरूपलाभाय किमात्मनो वा
प्रतीतये मानमपेक्षतेऽयम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com