________________
२३८
प्रत्यक्तत्त्वचिन्तामणी तत्साक्षित्वमिति । तत्र धर्मयोरीश्वरत्वसाक्षित्वयोरेव भेदो धर्मिणोरीशसाक्षियो व भेदो वस्तुतः स्वरूपादिति द्वयोर्योजना ॥१७७--१७८॥
साक्षिद्वैविध्यतः मोक्तं प्रत्यक्षं द्विविधं यतः। सामान्य लक्षणं चित्वं प्रत्यक्षस्य ततः स्मृतम् ॥१७८॥
एवं साक्षिद्वैविध्यनिरूपणाज्जीवेश्वरसाक्षिजन्यभेदेन प्रत्यक्षज्ञानस्य द्वैविध्यं सिद्धमित्याह-साक्षोति। नन्वेवमपि शुक्तिरूप्यादिभ्रमे प्रत्यक्षलक्षणस्यातिव्याप्तिरिति चेत्, न । न तावद्विषयप्रत्यक्षलक्षणस्य तद्विषयेऽतिव्याप्तिः, तस्य केवलसाक्षिवेद्यत्वाभ्युपगमात् । नाऽपि ज्ञप्तिगतप्रत्यक्षलक्षणस्य तत्रातिप्रसङ्गः, भ्रमस्यापि स्वांशे प्रत्यक्षप्रमाणतया सामान्यलक्षणे लक्ष्यत्वादित्यभिप्रेत्याह-सामान्यति । ज्ञप्तिगतप्रत्यक्षस्य सामान्यलक्षणं चित्त्वमेव यता हेतोस्तस्मात्तस्य च भ्रान्तिरूपप्रत्यक्षे नातिव्याप्तिः, भ्रमप्रमासाधारणप्रत्यक्षत्वसामान्यनिर्वचने तस्याऽपि लक्ष्यत्वादित्यर्थः ॥ १७६ ॥
अबाधितत्वाधिक्यं स्यात्प्रमायां व्यवहारतः । सा प्रत्यक्षादिभेदेन षोढा वेदान्त इष्यते ॥१८०॥
यदा तु प्रत्यक्षप्रमाया एव लक्षणं वक्तव्यम्, तदा पूर्वोक्तलक्षणे बाधितत्वं विषयविशेषणं देयम्, शुक्तिरूप्यादिभ्रमस्य संसारकालीनबाधविषयप्रातिभासिकरजतादिविषयकत्वादित्याशयेनाह - अबाधित. त्वेति । प्रत्यक्षप्रमाणनिरूपणाय तत्प्रमाया एवं लक्षणीयत्वादिति भावः। नन्वबाधितत्वं पारमार्थिकत्वमेव वाच्यं तस्य घटादावप्यभावेन तदघटितस्तक्षणस्य तत्प्रमायामव्याप्तिरित्याशङक्य संसारकालीनबाधविषयत्वस्य व्यावहारिकसत्त्वस्याऽबाधितपदेन विवक्षितत्वाद् मैवमित्याह-व्यवहारत इति । सा प्रमा प्रत्यक्षानुमित्युपमिति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com