SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रकरणम् । २३-८ शाब्दार्थापत्त्यभावभेदेन षोढा षट्प्रकारिका वेदान्तशास्त्रे इष्यते विद्वद्भिरित्यर्थः ॥ १८० ॥ एतन्निरूपितं सम्यक् प्राचीनैर्बहु विस्तरात् । प्रसङ्गागतमत्रोक्तमित्यता ह्युपरम्यते ॥ १८१ ॥ तर्हि विस्तरेण निरूपणीया सेत्यत आह-- एतदिति । प्राचीनराचाय्यैर्धर्मराजदीक्षितादिभि: परिभाषादिग्रन्थेषु बहुविस्तरादेतत्सम्यनिरूपितमिति सम्बन्धः । ननु तर्हि तैरुक्तत्वात् किमर्थ त्वया संचेपेणाप्युक्तमिति तत्राह - प्रसङ्गागतमिति । प्रतिकर्मव्यवस्थाप्रसङ्गागततया अत्र संक्षेपेणेोक्तमिति । हि यतः अत उपरम्यते । लं विस्तरेणेत्यर्थः ॥ १५१ ॥ तस्माद्वेदान्तशास्त्रेऽस्मिन् युक्तिभिः श्रुतिभिस्तथा । प्रतिकर्म्मव्यवस्थापि निरवद्यैव सिद्ध्यति ॥ १८२ ॥ परमप्रकृतमुपसंदरति-तस्मादिति । निरवद्यैव सर्वदोषविवर्जितत्वान्निष्प्रत्यूहा प्रतिकर्म्मव्यवस्था सिद्धातीति सम्बन्धः ॥ १८२ ॥ नान्यस्मिन् वादिपक्षे सा व्यवस्था सम्भवेदतः । अनादृत्याऽन्यवाद्युक्ती राश्रयेद वैदिकं मतम् ॥१८३॥ मुमुत्तून्प्रमाणकुशलान् शिक्षयन्नन्य वादिमतेष्वनादरणीयत्तामाहनेति ॥ १८३ ॥ स्वमाध्यासिकं भेदं समाश्रित्य चिताऽखिलः । मातृमानप्रमेयादिव्यवहारो भवेदयम् ॥ १८४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy