SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रकरणम् । मायैकत्वश्रुतिस्मृतीनामनेकत्वेन तद्विरोधाच्च साऽन्यपरेत्यभिप्रेत्याह मायामिति ।। १७४ ॥ तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते । योगीमायासमेयाय तस्मै विद्यात्मने नमः ॥ १७५ ॥ २३७ - स्मृतिवचनमाह — तरतीति । निवृत्तिरेवाऽत्र तरणम्, 'तरति ब्रह्महत्याम्' इत्यादी निवृत्तौ तच्छब्दप्रयोगान्नद्यादेखि लङ्घनस्याभावात्, तथा च मायामविद्यां तरतीति सामानाधिकरण्येन ज्ञाननिवर्त्यत्वनिर्देशान्मायाविद्ययेार्भेदाभावस्तदेकत्वञ्च निश्चीयत इति भावः ॥ १७५॥ इत्येकवचनादेव लाघवानुगृहीततः । निश्चीयते तदेकत्वं साक्ष्येकत्वमता मतम् ॥ १७६ ॥ ननु श्रुतिस्मृत्यनेकत्वमात्राद् न मायैकत्वसिद्धिरेकेनापि बलवता बहूनां बाघदर्शनादित्याशङ्क्य लाघवानुग्रहादेकत्व श्रुतीनामेव प्रावल्यमित्याह — इत्येकेति । ततश्चोपाधिभूतमायाया एकत्वादीशसाक्ष्येकत्वं सिद्धमित्यर्थः ॥ १७६ ॥ - मायावच्छिन्नचैतन्यं परमेश्वर ईरितः । तस्या विशेषणत्वेन परमेश्वरतेाच्यते ॥ १७७ ॥ साक्षित्वं तदुपाधित्वे तत्र भेदस्तु धर्म्मयोः विभेदो वस्तु नैव धर्मिणोरीश साक्षिणेाः ॥१७८॥ ईश्वरसाक्षिणः परमेश्वराद्भेदं दर्शयितुं तत्स्वरूपमाह – मायेति । तस्या मायाया विशेषणत्वेन प्रवेशे परमेश्वरत्वमुच्यते, तस्या उपाधित्वे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy