SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २८२ प्रत्यक्तत्त्वचिन्तामणौ ईश्वरे इति । ततश्चित्तविश्रान्तिरूपशान्त्युदयानन्तरं ईश्वरे भगवत्तत्त्वे - खिलान् कामानिच्छाभेदान्विहाय परित्यज्याऽनायासेन सदास्थितिनैरन्तर्येण पर्यवसानं लभ्यते इत्यर्थः ।। ६१ ॥ मुकुन्दपादाम्बुजभक्तिवैभव प्रोद्भूतवेदान्तविचारणा दूढा। तदुत्यबोधेन निहन्त्यशेषतोड प्यशुद्धिमज्ञानमयों विविक्तधीः ॥ ६॥ एवं विक्षेपनिवृत्तिमभिधायाज्ञानाख्याशुद्धिनिरासोपायं दर्शयतिमुकुन्देति । "मुक्तिमिच्छेजनार्दनात्" इत्यादौ मुक्तिदातृत्वेन प्रसिद्धस्य श्रीमन्मुकुन्दस्य पादावेव सौन्दर्यमाधुर्यसौष्ठवमार्दवादिगुणैरम्बुज. रूपौ तत्रानुरागरूपा भक्तिस्तस्या वैभवमुत्तरोत्तरोत्कर्षजनितप्रेमदायरूपमैश्वर्य्य तेन प्रकर्षणाचार्यद्वारोद्भूता या वेदान्तविचारणा दृढा प्रमाणप्रमेयगतासम्भावनोच्छेदकत्वेनाऽतिनिश्चला तदुत्थबोधेन तयाऽऽविर्भूतजाग्रदाद्यवस्थाविनिर्मुक्तसाक्षितत्त्वबोधेन विविक्ते देहादिभ्यः स्वत एव पृथक्कृते साक्षितत्त्वे धीनिश्चयात्मिका चेतावृत्तिर्यस्य सोऽज्ञानमयों चतुर्विधामविद्याख्यामशेषतः सकारणां सविलासा निहन्ति नाशयतीत्यर्थः ॥ ६२ ॥ एवं त्वमर्थ परिशोधितेऽञ्जसा स्यात्तत्पदार्थेन विशुद्धवस्तुना। सहैक्यबोधः श्रुतिमौलिवाक्यतः प्रत्यकचितो ह्याशु ततो विमुच्यते ॥६३॥ ननु साक्षितत्त्वज्ञानमात्रेण कथं समस्ताविद्यानाशः ? कथं वा मुक्तिः १ यता वेदान्तानां ब्रह्मात्मैक्यमेव विषयः, वद्ज्ञानमेव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy