________________
षष्ठं प्रकरणम् ।
२८१ एतदेव विवृणोति-यज्ञ इति। यज्ञो देवताद्देशेन द्रव्यत्यागात्मकः, तपः शास्त्रानुरोधेन शरोरेन्द्रियादेः शोषणम् , शारीरादिकं भगवदुक्तं त्रिविधं वा, दानन्यायार्जितस्य वित्तस्य स्वस्वत्वत्यागपूर्वकपरस्वत्वापादनम्, तच्च पात्रेषु; एतत्त्रयोपादानं वेदानुवचनदेवार्चनादेरप्युपलक्षणम्। तत्सर्वमहङ्करोमीत्यहङ्कति विना गोविन्दपादाब्जसमर्पितं यथा स्यातथा कृतं सत्, अनेकजन्मार्जितं पापसञ्चयं भगवद्भक्तितत्त्वज्ञानप्रतिबन्धकं भगवत्समर्पणबलेन झटित्येव निहन्त्युच्छिनत्तीत्यर्थः। सकलप्रतिबन्धकपापोच्छेदः सिद्ध इति कथं ज्ञायतेत्याद्यपेक्षायामाहभक्तिमिति। भगवति समग्रैश्वर्यादिसम्पन्ने धोक्षेषु प्रत्याहृतेष्विन्द्रियेषु सत्सु जायते हृदये प्रादुर्भवतीत्यधोक्षजः श्रीकृष्णस्तस्मिन् भक्तिमनुरागलक्षणा जनयत्युत्पादयति। तथा च भगवद्भक्तिप्रादुर्भावेनैव पापोच्छेदसिद्धिलक्षणीया, नहि सकलप्रतिबन्धकपापाच्छेदिपुण्य. पुखमन्तरेण भगवति भक्तिरुत्पद्यते इति भावः ॥ ६० ॥
विक्षोपहानिर्भगवत्पदाम्बुज
ध्यानेन सिद्ध्यत्यचलेन सर्वदा। शान्तिः स्थिरा लभ्यत ईश्वरे ततो
विहाय कामानखिलान् सदास्थितिः॥६१॥ एवं भगवदर्चनलक्षणयज्ञदानाद्यनुष्ठानेन पापाख्याशुद्धिनिरासं तत्फलं भगवद्भक्तिञ्चाभिधाय,विक्षेपाख्याशुद्धिनिरासोपायं भगवद्धवानं तत्फल्नञ्च दर्शयति-विक्षेपहानिरिति । सर्वदा निरन्तरमित्युपलक्षणं दीर्घकालादरादेरपि। भगवत्पदाम्बुजध्यानेनाचलेन विनैरनभिभाव्यतया स्थिरेण विक्षेपस्य रागद्वेषादिदोषजालहेतुभूतचित्तचाञ्चल्यस्य हानिर्निवृत्तिर्भवति । ततः शान्तिः रागादिनिवृत्त्युपलक्षिता चित्तविश्रान्तिः स्थिरा दीर्घकालानुवर्तिनी लभ्यते । ततः किमिति तत्राह--.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com