________________
षष्ठं प्रकरणम् ।
1
२८३ प्रज्ञानबाधद्वारा मोक्षसाधनमित्याशङ्क्याह - एवमिति । एवं पूर्वोक्तरीत्या त्रिविधाशुद्धिनिरासेन त्वंपदार्थे परिशोधिते सति तत्पदार्थेन विशुद्धवस्तुना सच्चिदानन्दानन्ताद्वय रूपेण सहैक्य बोधोऽभेदज्ञानं प्रत्यक् चैतन्यस्य श्रुतिमौलिवाक्यं तत्त्वमस्यादि प्रमाणमूर्द्धन्यं तज्जन्योSrastयासेन स्वत एव स्यात् सिद्ध्यतीत्यर्थः । साकल्येन पुरुषापराधविनिवृत्तौ सिद्धायां स्वत एव सिद्धे ब्रह्मात्मैक्यबोधे न तदर्थं पुनः पृथक् प्रयासोऽपेक्ष्यते इति भावः । तदुक्तं सङ्क्षेपशारीरकाचाय्यै:"पुरुषापराधविनिवृत्तिफल: सकलो विचार इति वेदविदः । अनपेक्षतामनुपरुध्य गिरः फलवद्भवेत्प्रकरणं तदतः ॥ पुरुषापराधशतसङ्कुलता विनिवर्त्यते प्रकरणेन गिरः । स्वयमेव वेदशिरसो वचनादथ बुद्धिरुद्भवति मुक्तिफला ॥" ( सं० शा ० १ । १६ – १७ ) तथा च पूर्वोक्तत्रिविधोपायेन पुरुषापराधे त्रिविधाशुद्धिलक्षणे ऽपसारिते सति अनन्तरं मुक्तिफला बुद्धिर्वेद शिरसा वचनात् स्वयमेवोद्भवति, न विचारस्य वाक्यप्रमित्युत्पत्तावप्युपयोग इति तात्पर्यम् । स्तस्माद् ब्रह्मैक्यज्ञानादाशु तदुदयसमसमये विमुच्यते कृतकृत्यो भवतीत्यर्थः ।। ६३ ॥
तत
व्योमादिकर्त्तृत्वमपीश्वरेऽर्पितं स्वमायया नित्यनिवृत्तयेक्षया । तथा परोक्षत्वमुखा गुणा विभा प्रकल्पितास्तच सदद्वयेऽक्षरे ॥ ६४ ॥
--
वस्तुत एकमेवाद्वितीयं चैतन्यं तत्र मायाविद्योपाधिपरिकल्पिता जीवब्रह्म विभागस्तत्तदुपाधिनिरासेन स्वत एव ब्रह्मैक्यं सिद्धमित्यसकृदुक्तमेवार्थं पुनर्द्रढयति — व्योमादीति । ईश्वरे मायोपचित चैतन्ये
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com