SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २७१ षष्ठं प्रकरणम् । बिम्बाद्याभासहेतुः प्रकृति रियमिहोपाधिरेकात्मवादे नानाजीवात्मवादे मन इति कथितो बिम्बनादा उपाधिः॥४२॥ इमं पक्षं विवृणोति-बिम्बत्वाक्रान्तमिति । एकमेव चैतन्य बिम्बस्वाक्रान्तमीश्वरचैतन्यमपरिच्छिन्नस्वरूपेणाऽत्यन्तनिर्मलं प्रतिबिम्बत्वाक्रान्तञ्च जीवचैतन्यं स्वस्वरूपावरणेन संसाराभिमुखत्वमेव स्वस्माद्वैमुख्यं तस्येत्यर्थः । बिम्बप्रतिबिम्बकल्पनोपाधिश्च एकजीववादे अविद्या प्रकृतिशब्दवाच्या, अनेकजीववादे मन इति-अन्तःकरणान्येव। अविद्यान्तःकरणोपाधिप्रयुक्तो जीवपरभेद इत्यर्थः ॥ ४२ ॥ स्वाधीनीकृत्य मायां परम सुखवपुः सर्ववित्सर्वशक्ति ब्रह्माद्वैतं विशुद्धं व्यवहृति विषये सर्वकर्तीशभावम् । माप्तं चैतन्यमन्तःकरणगत मगाज्जीवभावं स्वशक्तया भेदस्त्वौपाधिकाऽस्त्यद्वय सुखवपुषाः प्रत्यगात्मेशयोहि ॥४३॥ अयं पक्षो युक्तियुक्त इति प्रदर्शयितुं तद्व्यवस्थामाह-स्वाधीनी अयं पक्षो युक्तियुक्त कृत्येति। ब्रह्मचैतन्यं परमसुखवपुरद्वयानन्दस्वरूपं मायां स्वाधीनीकृत्येशभाव प्राप्तम्, अत एव व्यवहारदशायां सर्वकर्बपि विशुद्धमद्वैतमेव, सर्ववित्त्वात्सर्वशक्तित्वादोश्वरत्व तस्य। तदेव चैतन्यमन्त: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy