SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २७२ प्रत्यक्तत्त्वचिन्तामणौ करणगतं जीवभावमगात् प्राप्तम् । स्वशक्तया मायया कार्यकारणरूपया भेदोऽद्वयसुखस्वरूपयो: प्रत्यगात्मपरमेश्वरयाहि श्रुतिस्मृतिविद्वज्जनप्रसिद्ध औपाधिकोऽस्तीत्यर्थः ॥ ४३ ॥ औपाधिको दोषगणाऽस्ति जीवे भ्रान्त्येह बुद्धिप्रतिबिम्ब एव। न बिम्बभूते परमेश्वरे स्या दुपाधिपक्षः प्रतिबिम्ब एव ॥४४॥ पुनरस्य पक्षस्य निर्दुष्टत्वं द्रढयति-औपाधिक इति। उपाधेः प्रतिबिम्बपक्षपातित्वाजोवे एवौपाधिको दोषगणो न बिम्बभूते परमेश्वरे तेषां प्रवेश इत्यर्थः ।। ४४ ॥ एतन्मते व्योमगभास्करस्य जलस्थभानारिव चास्त्यभेदः। प्रत्यकचिदद्वैतसुखात्मनाहि श्रीताऽप्यखण्डैकरसस्वभावात् ॥ ४५॥ एतन्मते जीवपरयोरैक्यप्रकारमाह-एतन्मते इति। एतदुक्तं भवति विभेदजनके ज्ञाने नाशमात्यन्तिकं गते आत्मनो ब्रह्मणो भेद. मसन्तं कः करिष्यतीति स्मृत्या एकस्यैवाज्ञानस्य जीवेश्वरविभागोपा. धित्वप्रतिपादनाद्विम्बप्रतिबिम्बभावेन जीवेश्वरयोविभागः नोभयो. रपि प्रतिबिम्बमावेन उपाधिद्वयमन्तरेयोभयोः प्रतिबिम्बत्वायोगात् । तत्रापि प्रतिबिम्बो जीवः, बिम्बस्थानीय ईश्वरः, तथा सत्येव लौकिकबिम्बप्रतिबिम्बदृष्टान्तेन स्वातन्त्र्यमीश्वरस्य तत्पारतन्न्यं जीवस्य च युज्यते "प्रतिबिम्बगताः पश्यन्नृजुवक्रादिविक्रियाः । पुमान क्रोडेद्यथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy