SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ षष्ठं प्रकरणम् । २७३ ब्रह्म तथा जीवस्थविक्रियाः" इति कल्पतरूक्तरीत्या "लोकवत्तु लीलाकैवल्यम्' (ब्र० सू० २ । १ । ३३ ) इति सूत्रमपि सङ्गच्छते इति । तथा चाज्ञानप्रतिबिम्बितस्य जीवस्यान्तःकरणरूपोऽज्ञानपरिणामभेदो विशेषाभिव्यक्तिस्थानं सर्वतः प्रसृतस्य सवितृप्रकाशस्य दर्पण इव, अतस्तस्य तदुपाधिकत्वव्याहारोऽपि,न तावताऽज्ञानोपाधिपरित्यागः, अन्तःकरणोपाधिपरिच्छिन्नस्यैव चैतन्यस्य जीवत्वे योगिन: कायव्यूहाधिष्ठानत्वानुपपत्तेः । न च योगप्रभावाद्योगिनोऽन्तःकरणं कायव्यूहाभिव्यक्तियोग्यं वैपुल्यं प्राप्नोतीति तदवच्छिन्नस्य कायव्यूहाधिष्ठानत्वं युज्यत इति वाच्यम्। “प्रदीपवदावेशस्तथाहि दर्शयति' (ब० ४।४।१५) इति शास्त्रोपान्त्याधिकरणभाष्यादिषु कायव्यूहे प्रतिदेहमन्तःकरणस्य चक्षुरादिवद्भिन्नभिन्नस्यैव योगप्रभावात् सृष्टरुपवर्णनात् । प्रतिबिम्बे बिम्बाखूदमात्रस्याध्यस्तत्वेन स्वरूपेण तस्य सत्यत्वान्न प्रतिबिम्बरूपजीवस्य मुक्त्यन्वयासम्भव इति न तदतिरेकेण मुक्त्यन्वयावच्छिन्नरूपं जीवान्तरं वा प्रतिबिम्बजीवातिरिक्तं जीवेश्वर विलक्षणं कूटस्थशब्दितं चैतन्यान्तरं वा कल्पनीयम् । “अविनाशी वा अरेऽयमात्मा" (बृ० ४ । ५। १४) इति श्रवणं जीवस्य तदुपाधिनिवृत्तौ प्रतिबिम्बभावापगमेऽपि स्वरूपं न विनश्यतीत्येतत्परम् , न तदतिरिक्तं कूटस्थं नाम चैतन्यान्तरमितिपरम् , जीवापाधिनान्त:करणादिनावच्छिन्नं चैतन्यं बिम्बभूत ईश्वर एव । "यो विज्ञाने तिष्ठन्' (बृ० ३ । ७ । २२ ) इत्यादिश्रुत्या ईश्वरस्यैव जीवसन्निधानेन तदन्तर्यामिभावेन विकारान्तरवस्थानश्रवणादिति समस्तप्रघट्टकतात्पर्य्यार्थः ॥ ४५ ॥ व्योम्नाऽप्यरूपस्य जलाद्यपाधी प्रत्यक्षदृष्टः प्रतिबिम्बभावः । तथास्त्वरूपस्य चिदद्वयस्य मायाद्युपाधी प्रतिबिम्बभावः ॥ ४६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy