SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २७४ प्रत्यक्तत्त्वचिन्तामणौ ___ननु न नीरूपस्य ब्रह्मणः प्रतिबिम्बभावः प्रमाणपथमवतरति, यतो रूपवत एव तथात्वं दृश्यते, इत्याशङ्क्याह-व्योम्नोऽपीति । “यथा ह्ययं ज्योतिरात्मा विवश्वानपी भिन्ना बहुधैकोऽनुगच्छन् उपाधिना क्रियते भेदरूपो देवः क्षेत्रष्वेवमजोऽयमात्मा" ( उ० नि. ) "आभास एव च" (ब्र० सू० २ । ३ । ५० ) “अत एव चोपमा सूर्यकादिवत्' (ब्र० सू० ३ । २ । १८) इति श्रुतिसूत्राभ्यां ब्रह्मणः प्रतिबिम्बभावः प्रामाणिकः। नीरूपस्याप्याकाशस्य जलादा प्रतिबिम्बो दृष्टः, अन्यथा जानुदघ्नजलेऽत्यगाधत्वप्रतीतिर्न स्यादिति तात्पर्यार्थः ।। ४६ ॥ शुद्धं स्वतो ब्रह्म निजप्रमादा. ज्जीवत्वमासाद्य भवं प्रयाति। यथा हि कुन्तीसुत एव को राधेय इत्थं प्रथितिं मयातः॥४७॥ केचित्-कौन्तेयस्यैव राधेयत्ववदविकृतस्यैव ब्रह्मण एवाविद्यया जीवभावो व्याधकुलसंवर्द्धितराजकुमारदृष्टान्तेन "ब्रह्मैव स्वाविद्यया संसरति स्वविद्यया विमुच्यते", इति बृहदारण्यकभाष्ये प्रतिपादनाद् राजसूनाः स्मृतिप्राप्तौ व्याधभावो निवर्त्तते, “यथैवमात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यत:'-इति वार्तिकोक्तेश्च । एवञ्च स्वाविद्यया जीवभावमापन्नस्यैव ब्रह्मणः सर्वप्रपञ्चकल्पकत्वादीश्वरोऽपि सह सर्वज्ञत्वादिकारणत्वादिधम्मैः स्वप्नोपलब्धदेवतावज्जीवकल्पितः—इत्याहुः, इत्यभिप्रेत्य पक्षान्तरं दर्शयति-शुद्धमिति ॥४७ ॥ स चाप्यवस्थात्रयवांश्च जाग्रत् स्वप्नः सुषुप्तिस्त्विति ता अवस्थाः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy