SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २७० प्रत्यक्तत्त्वचिन्तामणौ स्याद् व्याएकापाधितयेश्वरस्याऽ पि व्यापकत्वं प्रकृतेश्च हेताः। बुद्धः परिच्छिन्नतयाऽल्पकत्वं जीवस्य लोके तदुपाधिकस्य ॥ ४० ॥ तयोर्व्यापकत्वपरिच्छिन्नत्वभेदोऽपि तत्तदुपाधिकृत इत्याहस्यादिति । प्रकृतेरुपादानस्य हेतीनिमित्तस्य जगजन्मादेरभिन्ननिमित्तोपादानरूपस्येश्वरस्य व्यापकत्वं व्यापकोऽपरिच्छिन्नो मायाख्य उपाधिर्यस्य तस्य भावस्तत्ता तया बुद्धेः परिच्छिन्नतया तदुपाधिकस्य जीवस्यापि लोके व्यवहारदशायामल्पकत्व परिच्छिन्नमिति योजना ॥४०॥ एतन्मते जीव इवेखरेऽप्य विद्याकृता देोषगुणा भवेयुः। उपाधिधर्मः प्रतिबिम्बगः स्या दितोऽस्ति बिम्बः परमेश्वरोऽसौ ॥४१॥ एतस्मिन्पक्षे बहुविरोध इत्याह-एतन्मत इति । अविद्याकृता दोषा जीवे इव परमेश्वरेऽपि स्युरुपाधेः प्रतिबिम्बपक्षपातित्वादित्यस्वरसाद्विम्बचैतन्यमेवासौ परमेश्वर इति योजना ।। ४१ ॥ बिम्बत्वाक्रान्तमेकं निरवधि वपुषाऽस्तीशचैतन्यमच्छ छायात्वाक्रान्तमेतन्निजपद विमुखं जीवचैतन्य मिष्टम। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy