SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ षष्ठं प्रकरणम् । स्थलक्षणलक्षितं निजमहिम्नि स्थितं तदेवाच्छं तत्पदलक्ष्यं स्वरूपलक्षणलक्षितमिति विवेकः ॥ ३० ॥ केचित्त मायाप्रतिबिम्बमीश्वरं वदन्ति तेषामयमाशयो भवेत् । जीवेशसाधारणचिद्घनं पदं बिम्ब विशुद्धात्मतया पृथस्थितम् ॥३८॥ एवं वेदान्तवेद्यं ब्रह्मैकमेवाद्वितीयमिति प्रसाध्य, तदैक्यबोधसिद्धये तत्त्वंपदार्थोपदेशसरणयो नानाविधास्तत्त्वविद्भिनिरूपिताः, तेषु पक्षेषु काँश्चित्पक्षानिह दर्शयति-केचित्त्विति । तत्पदवाच्यमीश्वरचैतन्यं मायायां प्रतिबिम्बरूपं वदन्ति । तेषामयमाशयो भवति जीवपरमेश्वरसाधारणं चैतन्यमानं विम्बं विशुद्धात्मतया पृथकस्थितम् भवतीत्यर्थः ।। ३८ ॥ मायाशक्तौ प्रतिफलमिदं हीशचैतन्यमिष्टं कार्योपाधी मनसि फलजाज्जीवचैतन्यमेतत् । एतत्पक्ष प्रतिफलचितोर्बुद्ध्यविद्यास्थयाः स्या दैक्यं पायोनिधिघटजलस्थावत्सम्मतञ्च ॥३८॥ एतदेव विवृणोति-मायेति । ब्रह्मचैतन्यबिम्बभूतस्य मायाशक्ती प्रतिफलं प्रतिबिम्बमीश्वरचैतन्यमिष्टं भवति । कार्योपाधावन्तःकरणे प्रतिबिम्बनाच्चैतन्य जीवचैतन्यं भवति, "कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः" इति वचनात् । एतन्मते जलाशयगतघटशरावादिजलगतसूर्यप्रतिबिम्बयोरिव जीवपरमेश्वरयोर्बुद्धवविद्यास्थयोः कार्यकार. योपाधिप्रतिबिम्बचैतन्ययोरैक्यं सम्मतं स्यादित्यर्थः ॥ ३६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy