SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २६८ प्रत्यकूतत्त्व चिन्तामणौ सृष्ट्यादिवाक्यमपि तत्परमद्वितीये ह्यारोप्य तत्र सकलं प्रतिषिध्यतेऽदः । तेनापि सच्चिदमितात्मपदं विशुद्धं सिद्धयेदखण्डमिति वेदशिरो मतं सत् ॥ ३६ ॥ ननु वेदान्तैर्ब्रह्मणि जगत्कारणत्वेन प्रतिपाद्यमाने सति ब्रह्म सप्रपच स्यात् । अन्यथा सृष्टिवाक्यानामप्रामाण्यापत्तेरित्याशङ्क्य नहि सृष्टिवाक्यानां सृष्टौ तात्पर्य्यम्, किन्तु द्वितीये ब्रह्मण्येव तत्प्रतिपत्तौ कथं सृष्टेरुपयोगः ? इत्थं यदि सृष्टिमनुपन्यस्य निषेधा ब्रह्मणि प्रतिपाद्येत, तदा ब्रह्मणि प्रतिषिद्धस्य प्रपञ्चस्य वाया प्रतिषिद्धस्य रूपस्येव ब्रह्मणोऽन्यत्रावस्थानशङ्कया न निर्विचिकित्समद्वितीयत्वं प्रतिपादितं स्यात् । ततः सृष्टिवाक्याद् ब्रह्मोपादेयत्वज्ञाने सति उपादानं विना कार्यस्यान्यत्र सद्भावशङ्कायां निरस्तायां "नेति नेति' ( वृ० २६/६ ) इत्यादिनापि ब्रह्मण्यपि तस्यासत्त्वोपपादने प्रपञ्चस्य तुच्छत्वावगमे निरस्त निखिल द्वैतविभ्रममखण्डं सच्चिदानन्दैकरसं ब्रह्म सिद्धयतीति परम्परया सृष्टिवाक्यानामप्यद्वितीये ब्रह्मण्येव तात्पर्यमित्याशयेन समाधत्ते — सृष्ट्यादिवाक्यमिति || ३६ || एवं तटस्थनिजरूपसुलक्षणाभ्यां संलक्षितं भवति तत्पदवाच्यमच्छम् । चैतन्यमीश्वरपदास्पदमात्मशक्ति मायाश्रितं निजमहिम्नि सदा स्थितं तत् ॥ ३७ ॥ तदेवं स्वरूपतटस्थ लक्षणलक्षितं तत्पदार्थ निरूपणमुपसंहरतिएवमिति । तत्पदवाच्यं चैतन्यमीश्वरपदास्पदं मायाशक्त्याश्रितं तट - Shree Sudharmaswami Gyanbhandar-Umara, Surat ---- www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy