SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ तृतीयं प्रकरणम् । १२६ वेनात्मवनिवृत्त्यनहत्वादिति तत्राह-प्रत इति । कल्पितत्वमुपपादयति-पूर्वमिति । यथा रज्जुस्वरूपपर्यालोचनया सदिस्तत्र नास्ति तथाऽऽत्मस्वरूपपर्यालो वनयाऽज्ञानं तत्रासदित्यर्थः । न अनीपिवमान.. निवृत्त्यनहत्त्वे प्रयोजकम् , प्रागभावे व्यभिचारात् । भावत्वे सत्यनादित्वं नित्यत्वे प्रयोजकमिति चेत्, न; भावत्वानङ्गीकारात् । अससद्वैलक्षण्यवत् सद्वैलक्षण्यस्यापि स्वीकारात् । अत एवाज्ञानं विशिनष्टि-कल्पितस्येति। अनिर्वाच्यस्येत्यर्थः ।। ४३ ॥ स्वयंप्रकाशात्मनि बोधजन्या: ज्ञानक्षतेभिन्नमलान्तरस्य । निरूपणाभावत आगमान्त वाचां चिदानन्दपकभाजाम् ॥४४॥ अत एव स्वप्रकाशतया नित्यानुभवरूपे आत्मनि वेदान्तानामज्ञाननिवृत्तिरेव फलं नान्यदित्याह-स्वयंप्रकाशात्मनीति ॥ ४४ ॥ अतः स्वयंज्योतिष प्रात्मनस्त दाकारवृत्तेजननेन सिद्धम् । वेदान्तवाचां विषयत्वमेवं न स्वप्रकाशत्वमसिद्धमस्य ॥४५॥ अज्ञाननिवृतिरात्माकारवृत्त्युत्पादनद्वारैव । तथा चाकारवृत्त्युत्पादकत्वेन वेदान्तानामात्मविषयत्वमित्याह-प्रत इति । न स्वप्रकाशत्वमस्यात्मनोऽसिद्धम्, श्रुत्यनुमानप्रमाणसिद्धत्वात्तस्येत्यर्थः ॥ ४५ ॥ नापेक्षतेऽसावितरमकाशं प्रत्यक स्वसत्तासमये चिदात्मा। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy