SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थ प्रकरणम् यदज्ञातं विश्वं स्थिरचरमिवाऽऽभाति सकलं विबुद्धं सच्छान्तं सुखममृतमद्वैतमकलम् । स्थितं हृद्देशेऽद्धाप्यतिजडधियां दूरमिव यत् विदा प्रत्यग्भूतं तदमितमोऽन्तश्च कलये ॥१॥ यं शास्त्रयोनिमखिलज्ञमनन्तशक्तिं ब्रह्मादिवागपि समर्थतराऽसमर्था । कत्तु गुणैरभिमुखं निजमानयोग __ स्तं नन्दमन्दिरमणिं शरणं प्रपद्य ॥१॥ प्रानन्दकन्दमभिवन्धपदारविन्द छन्दोरसं खरसतोऽमरभृङ्गसेव्यम् । भक्त्या मुकुन्दममृतायनमात्मबुद्धः प्रावण्यसिद्धय इहाद्भुतमाश्रयेऽन्तः ।। २॥ अतीतानन्तरप्रकरणे "मध्यस्तमज्ञानकृतं प्रतीचि स्वतो विमुक्ते जनिमृत्युबन्धम्" इत्यादिना प्रत्यगात्मनोऽज्ञानकृत एव बन्धो ज्ञानतोऽज्ञाननाशे तन्नाश इत्युक्तम्, तदेवोपपादयितुं प्रकरणान्तरमार. भमाणः स्वेष्टदेवतानुसन्धानरूपं मङ्गलमाचरन्नर्थात्प्रकरणप्रतिपाद्यमर्थ संगृह्णाति-यदज्ञातमिति । तदमितमहोऽपरिच्छिन्नतेज:पदास्पदं श्रीकृष्णाभिधमन्तः प्रत्यगभिन्नतया कलयेऽनुसन्दधे इत्यन्वयः । तत्किमित्याकाङ्क्षायामाह-यदिति । यदज्ञातं सत् स्वाश्रयस्वविषयमायावृतं सद् विश्वमाकाशादिभूतजातं तत्कार्य सकलं ब्रह्माण्डं तद्गतं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy