________________
प्रत्यक्तत्त्वचिन्तामणौ तस्मानास्ति विधिःकश्चिच्छ्रवणादाविति स्फुटम् । एवं प्राप्त समाधानं सम्यगवाऽभिधीयते ॥ ४२ ॥
पूर्वपक्षमुपसंहरति-तस्मादिति । यस्मात्पूर्वोक्तरीत्या युक्तिविरोधस्तस्माच्छ्रवणे विधिर्नास्तीत्यर्थः । एवं पूर्वपक्षे प्राप्ते समाधानं प्रतिजानीते-एवमिति ॥ ४२ ॥
तावदद्वष्टफलस्यापि धर्मज्ञानस्य साधने । अर्वाचीनपुमर्थस्य स्वीकृतोऽध्ययने विधिः॥४३॥ किमुत्कृष्टपुमर्थस्य साक्षात्कारस्य सच्चितः। सा ने श्रवणे वाच्यं विधिरस्तीति सर्वथा ॥४४॥
श्रवणे विधि कैमुत्येन साधयति-तावदिति द्वाभ्याम् । दृष्टफलस्यापि धर्मज्ञानस्य साधने ध्ययने नियमविधिस्तावदङ्गीकृत एव । यदा त्वर्वाचीनपुरुषार्थे परोक्षे धर्मज्ञानेऽप्येवं तदा किमु वक्तव्यं सर्वथा परमपुरुषार्थब्रह्मसाक्षात्कारसाधने श्रवणे नियमविधिरिति द्वयोयोजना ।। ४३-४४ ॥
कल्पकं यदि यागीयापूर्व नियम विधिः। अध्ययने तदा ब्रह्मज्ञानं तत्कल्पकं श्रुतौ ॥४५॥
उभयत्र कल्पकसाम्यमप्यस्तीत्याह-कल्पकमिति। यद्यध्ययने नियमादृष्टजन्यं यागीयापूर्व तत्कल्पकं स्यात्तर्हि श्रुता श्रवणेऽपि ब्रह्मज्ञानं तत्कल्पकमस्त्विति योजना ॥ ४५ ॥
समस्तादृष्टजन्यत्वं ब्रह्मज्ञानस्य सम्मतम् । सर्वकर्माखिलं पार्थ ! ज्ञाने परिसमाप्यते ॥ ४६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com