________________
te
द्वितीयं प्रकरणम् । तृतीयं दूषयति-नान्त्य इति। अन्त्यो नियमविधिर्नास्तीत्यन्वयः। तत्र हेतुमाह-नियमजेति । नियमादृष्टस्य कल्पकाभावात् । अवघातादौ तु नियमादृष्टजन्यपरमापूर्वमेवैतत्कल्पकम् । न च ब्रह्मज्ञानमदृष्ट जन्यं केवलव्यतिरेकाभावादित्यर्थः। अव्यतिरेकत इति च्छेदः ॥ ३८ ॥
न हि सत्यपि वेदान्तश्रवणादौ न दृश्यते । अदृष्टाभावदोषेण ब्रह्मज्ञानसमुद्भवः ॥३८॥
व्यतिरेकाभावमुपपादयति-नहीति । नहि वेदान्तश्रवणादी सत्यनियमादृष्टाभावमात्रापराधेन ब्रह्मज्ञानानुत्पत्तिष्टचरीत्यर्थः ॥३६॥
कञ्चित्तत्त्वबोधस्यादृष्टजन्यत्वमिच्छताम् । विधिर्भाष्यविरुद्धोऽयं स विधिस्तैर्निराकृतः॥४०॥
तदङ्गोकार सम्प्रदायविरोध इत्याह--कथञ्चिदिति । ज्ञानस्य कथञ्चिददृष्टजन्यत्वेऽप्ययं विधिर्भाष्यविरुद्धः। समन्वयसूत्रव्याख्यानावसरे महता प्रयत्नेन तैर्भाष्यकृद्भिः स विधिः श्रवणज्ञानविधिनिराकृत इत्यर्थः ॥ ४०॥
अन्यथा निगमान्तानां वाक्यभेदस्त आपतेत् । ब्रह्मात्मैक्यपरत्वेन विधिनिष्ठतया तथा ॥४१॥
विपक्षे बाधकान्तरमप्याह-अन्यथेति । श्रवणविध्यङ्गीकारे वेदान्तानां विधिपरत्वं ब्रह्मपरत्वञ्चेति वाक्यभेदप्रसङ्ग इत्यर्थः ॥४१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com