SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ प्रत्यकतश्व चिन्तामया भ्रमत्वापत्तिः, अन्यथा स्थितस्यान्यथा बोधनादिति नाऽपूर्व विधिः श्रवणे इति तात्पर्यार्थः ॥ ३४ ॥ ह न द्वितीया यतस्तत्त्वसाक्षात्कारस्य नान्यतः । श्रुतिमालेः कथञ्चिद्वा प्राप्तिसम्भव इष्यते ॥ ३५॥ द्वितीर्यं दूषयति न द्वितीय इति । परिसंख्याविधिर्नास्तीत्यर्थः । पञ्चनखापञ्चनखभक्षणयोरन्यतः प्राप्तावन्यपरिवर्जनवदात्मतत्त्वसाक्षात्कारस्य वेदान्तातिरिक्तात् प्राप्त्यसम्भवादिति तात्पर्यार्थः ॥ ३५ ॥ चिकित्साशास्त्रवत्माप्त व्यापारान्तरवारिणी । श्रवणे परिसंख्याऽत्र किन्न स्यादिति चेच्छृणु ॥ ३६ परिसंख्यासिद्धिं शङ्कते - चिकित्सेति । यथा चिकित्साशास्त्राध्ययनसमये अन्यव्यापारोऽपि न विरुद्धाते, तथा वेदान्तश्रवणादिसमयेsपि प्राप्तव्यापारान्तराविरोधस्य वारिणी परिसंख्या किन्न स्यादिति योजना | परिहरति — शृण्वति ॥ ३६ ॥ श्रवणं ह्यागमाचार्य्यवाक्यजं ज्ञानमिष्यते । अयोग्येऽत्र विधिर्नास्ति युक्तयाप्येवं विचार्य्यताम् ३ - तत्रोपपत्तिमाह – श्रवयमिति । अत्र श्रवण्यज्ञानेऽयेोग्ये कर्त्तुमकर्त्तुमन्यथा कर्तुमशक्यत्वाद्विध्यनर्थे विधिर्नास्तीत्यर्थः ॥ ३७ ॥ नान्त्येा नियम जादूष्टकल्पकाभावतो विधिः । नादृष्टजन्यमद्वैतज्ञानं वा व्यतिरेकतः ॥ ३८ ॥ の Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy