________________
द्वितीयं प्रकरणम् । असम्भवमेव प्रदर्शयितुं विकल्पयति-अपूर्व इति । स किं ज्योति.. टोमादेरिव श्रोतव्य इत्यत्रा पूर्व विधिः ? किं वा, "पञ्च पश्चनखा भक्ष्याः, इत्यादिवत्परिसंख्याविधिः ? उताहोऽवधातादिवनियमविधिः? इति विकल्प्य प्रथमं दूषयति-नाऽपूर्व इति। अत्र श्रवणे नाऽपूर्वो विधिरस्तीत्यन्वयः ॥ ३०॥
वेदान्तश्रवणादीनां ब्रह्मज्ञानफलं प्रति । अन्वयव्यतिरेकाभ्यां क्लप्तसाधनता यतः॥३१॥ प्रसिद्ध वैद्यशास्त्रादिश्रवणस्य तदास्पदम् । ज्ञानं प्रति यतो लोके साधनत्वमबाधितम् ॥३२॥
तत्र हेतुमाह--- वेदान्त इति । वेदान्तश्रवणादीनां दृष्टफलब्रह्मज्ञानं प्रति साधनत्वस्यान्वयव्यतिरेकाभ्यां सिद्धत्वात्। प्रसिद्धं हि लोके वैद्यशास्त्रश्रवणस्य तद्विषयावगमं प्रति साधनत्वमिति नाऽपूर्वविधिरिति द्वयोर्योजना ।। ३१-३२ ।।
ननूपायापरिज्ञानादलौकिकसमीक्षणे। अपूर्वविधिरेवायं श्रोतव्य इति चेन्नहि ॥ ३३ ॥ अपूर्वविधिसिद्धिं शङ्कते--नन्विति । परिहरति नहीति ॥ ३३ ॥ विचारस्य विचार्यार्थनिर्णय प्रति हेतुता। अपरोक्षप्रमाणस्य तत्साक्षात्कारहेतुता ॥ ३४ ॥
तत्रोपपत्तिमाह-विचारस्येति। यद्विषयको यो विचार: स तन्निर्णय प्रति हेतुः, अन्यथा तस्य वैयर्थ्य स्यात् । एवमपरोक्षवस्त्ववबोधकप्रमाणस्य तत्साक्षात्कारहेतुत्वं लोकप्रसिद्धम् । अन्यथा तस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com