SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्तत्त्वचिन्तामणी एवंरूपावशेषस्तु स्वानुभत्येकगोचरः। येन सिद्धयति विप्रेन्द्रास्तद्धि विज्ञानमीश्वरम् ॥२७॥ एवमिति। एवरूपी योऽवशेष: सर्वदृश्यबाधावधिभूतः स तु स्वानुभूत्येकगोचरः स्वरूपभूता याऽनुभूतिस्तदैकगोचरः स्वसंवेद्यः, अवेद्यत्वे सत्यपरोक्षरूपो येन सिद्धपति-स्वस्वरूपेण येन स्वत: सिद्ध एव सिद्धपतीत्युपचर्यते तद् हि यस्मादीश्वरमीश्वरस्वरूपभूतं विज्ञानमित्यर्थः। तथा च प्रत्यगभिन्नं ब्रह्मैव चरमवृत्त्यारूढं सदज्ञानतत्कार्यनिवर्तकमिति न कोऽपि दोष इति भावः ॥ २७ ॥ इत्यतः श्रुतिरप्यात्मज्ञानमुद्दिश्य सत्फलम् । मननध्यानसंयुक्तं विधत्ते अवणं विभाः॥२८॥ एवं 'आत्मा वा अरे" (बृ०४ । ५। ६) इति श्रुतेस्तात्पर्य पुराणवचनसिद्ध प्रदर्श्य प्रकृते योजयति-इतीति। इत्यतः श्रुतिसिद्धार्थस्य पुराणे प्रतिपादितत्वात् सत्फलं सद्ब्रह्म तत्प्राप्तिरेव फलं यस्यात्मज्ञानस्य तदित्यर्थः । विभारात्मतत्त्वस्य । सुगममन्यत् ॥ २८ ॥ ननूपपद्यते नैवं श्रवणे युक्तितो विधिः । तिस्रो विधा विधेस्तत्र किंविधः श्रवणे विधिः॥२६॥ श्रवणे विधिर्न सम्भवतीत्याक्षिपति-नन्विति। तिस्रो विधा: प्रकारा विधेः। तत्र तेषु त्रिषु प्रकारेषु मध्ये श्रवणे किम्प्रकारको विधिरित्यर्थः ॥२६॥ अपूर्वः परिसंख्या नियमा वा विधिर्मतः। नापूर्वो विधिरनास्ति ज्योतिष्टोमादियागवत् ॥३०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy