________________
द्वितीयं प्रकरणम् ।
स्वयं तस्यामभिव्यक्तस्तद्रूपेण मुनीश्वराः । ब्रह्माऽविद्यासमाख्यं सदज्ञानं चित्प्रकाशितम् ॥२४॥
प्रतीत्या केवलं सिद्धं दिवाभीतान्धकारवत् । प्रभूतं वस्तुगत्यैव स्वात्मना ग्रसते स्वयम् ॥ २५ ॥
स्वात्मनाऽज्ञानतत्कार्यं ग्रसन्नात्मा स्वयं बुधाः । स्वपूर्णब्रह्मरूपेण स्वयमेवावशिष्यते ॥ २६ ॥
६५
ननु ब्रह्मात्मैक्याकारावृत्तिरज्ञानं तत्कार्यश्व बाधते इत्युक्तम् । सा वृत्तिः किं नित्या ? अनित्या वा ? आद्ये द्वैतापत्तिः । द्वितीये तस्यानिवर्त्तकं वृत्त्यन्तरचे तर्ह्यनवस्था, स्वयमेव चेत्, तदात्माश्रय इत्यादिशङ्का परिहरन् प्रकारान्तरमेवाह - प्रत्यगित्यादिपञ्चकेन । शब्द एव लक्षणमसाधारणं साधनं यस्यां सा श्रवणादिसाधनसामग्री तया शब्दादिसामग्र्या श्रवणादिसाधनसामभ्या या वृत्तिः प्रत्यग्ब्रह्मक्याकारा पूर्णवस्तुविषयतया पूर्णमानसी भृशमतिशयेन सुदृढा सन्देहविपर्यासशून्यत्वेनाभिजायते, तस्या वृत्तेर्द्रष्टृभूता यः स्वयंप्रभः स्वप्रकाशः प्रत्यगात्मा स्वस्य स्वभावभूतेन नित्यकूटस्थ रूपेण, ब्रह्मभूतेन केवलमद्वयानन्दरूपेण, स्वयं तस्यां वृत्तौ तद्रूपेण प्रखण्डैक्यरूपेणाभिव्यक्तः सम्यगारूढः सन् ब्रह्माविद्यासमाख्या नामधेयं यस्याज्ञानस्य तत्पूर्वमज्ञानकाले चिता खाक्षिणा प्रकाशितमप्यज्ञोऽहमिति प्रतीतिमात्रसिद्धं सद् दिवाभीत उलूकस्तत्प्रतीतिसिद्धो यो मध्यंदिनवर्त्तिनि दिवाकरेऽन्धकारस्तद्वद् वस्तुगत्या प्रभूतमविद्यमानमेवाज्ञानं स्वयं साक्षी स्वात्मना स्वस्वरूपेणाभिव्यक्तो ग्रसते । एवमज्ञानं तत्कार्यश्व स्वस्वरूपेण स्वयमात्मा प्रसन्नेव पूर्ण स्वभावतोऽपरिच्छिन्नं यद्ब्रह्म तद्रूपेण स्वयमेवावशिष्यते इति पश्वानां योजना ।। २२-२६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com