________________
८४
प्रत्यकूतत्त्वचिन्तामयी
पूर्णानन्दामृतरसनिधौ त्यक्तदेहत्रयोऽन्तस्तिष्ठत्यात्मन्य खिलविदसौ शान्तमायेोऽनपायः s
श्रुतिसिद्धमर्थ दर्शयति-- तत्त्वज्ञानादिति । तत्त्वस्य ब्रह्मैक्य-रूपस्य साक्षात्कारान्निजसुखं ब्रह्मैक्यं तद्गतानाद्यनिर्वाच्या विद्यानिवृत्तौ सत्य प्रत्यगात्मैक्यरूपा अद्वयसुखस्वरूपा मुक्ति: स्वयमेव सिद्धा, न केनचित्साधनेन साध्या, नित्यत्वात् । अज्ञानतत्कार्य निराकरणेनैव ज्ञानस्य साफल्यम् । अतः सुष्ठुक्तमसावखिलं ब्रह्मैक्यं वेत्तीति तथा, शान्ता तत्त्वज्ञानेन बाधिता माया सकार्याऽविद्या यस्य सच, अत एव पुनरावृत्तिरूपापायशून्यः यतस्त्यक्तं मूलबाधेन बाधितं देहत्रयं स्थूलसूक्ष्मकारणाख्यं येन स च, अन्तरात्मनि पूर्णानन्दानन्तामृतरससिन्धौ तिष्ठति — कृतकृत्यतया विराजते इत्यर्थः ॥ ७८ ॥
तस्माद्धीरोऽपरिमित पदप्राप्तये वेदमौले
स्तत्त्वं ब्रह्माद्वयसुखपदं स्वात्मबुद्धया गुरुक्त्या । पर्यालेाच्य श्रवणमननध्याननिष्ठा विवेकी विद्यात्तेन व्रजति परमं मेाक्षमिष्टं सुखेन ॥ ८० ॥
एवं श्रुतिमौलिवादिसम्मतां मुक्ति सोपायामभिधाय पुनस्तत्प्राप्त्युपायं संक्षेपेण दर्शयति - तस्मादिति । यस्मात् स्वत: सिद्ध एव मोक्षः विस्मृतकण्ठस्थचामीकरवत् स्वात्माज्ञानमात्रावृतत्वात्, तस्माद्धीरो विवेकी सम्यग्वैराग्यादिसाधनसम्पन्नोऽपरिमितं परिच्छेदशून्यं यत्पदं तत्प्राप्तये तत्साक्षात्काराय गुरुक्त्या वेदमौलेस्तत्वं तात्पर्यविषयमाचार्योपदिष्टवेदान्तवाक्येभ्यो ब्रह्माद्वयसुखं यत्पदं तत्स्वबुद्धा स्वानुभवेन श्रवणादिनिष्ठः सन् पर्यालोच्य सम्यग्विचारेण स्वानुभवारूढं कृत्वा विद्यात् — सर्वोपायेन जानीयात् । तेन बोधेन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com