SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । परमिष्टं निरतिशयपुरुषार्थरूपं सुखेनानायासेन मोक्षं व्रजति-तद्रूप एव भवतीत्यर्थः ॥ ८० ॥ वेदोऽनादिर्न तु पुरुषधीपूर्वसिद्धः प्रमाणं निर्दोषत्वादविदितपदज्ञापकत्वात्स्वतश्च । तत्रास्तिक्यप्रवणमनसामात्मबोधेऽधिकारी नैवान्येषां स्वमतिकलनात्यानयुक्त्याश्रितानाम् ॥८॥ यथोक्ततत्त्वज्ञाननिष्ठायां वेदान्तशास्त्रे श्रद्धावतामेवाधिकारः, नान्येषामित्याह-वेद इति । वेदो वियदादिवदनादितया पुरुषबुद्धिपूर्वसिद्धो न भवति, किन्त्वपौरुषेयतया अप्रामाण्य हेतुसर्वदोषशून्यत्वादज्ञातज्ञापकत्वाच्च स्वतः एव प्रमाणम् । इदमेकादशे प्रकरणे विस्तरेण वक्ष्यते। तत्र वेदे यदास्तिक्यं तत्र प्रवणं मनो येषां सम्यक प्रवेशेनाभिमुखीकृतमनसो ये तेषामेवात्मबोधे तदुपाय श्रवणादावधिकारो नैवान्येषां स्वमतिकल्पनयोत्थानं यासां युक्तीनां तदाश्रितानां केवलतर्कनिष्ठानामित्यर्थः ॥ ८१॥ प्रत्यक्तत्वे परसुखवपुष्यद्वितीये विशुद्ध मायातीते सकलकलनास्पर्शशून्ये निरंशे । वेदान्तोत्थामलधिषणया ब्रह्मविद्याख्ययेदं सम्यग्ज्ञाते विदितमखिलं विश्वमध्यस्तमस्मिन् ।८२। ब्रह्मज्ञानेन सर्वज्ञानसिद्धिं दर्शयति--प्रत्यक्तत्त्व इति। प्रत्यगभिन्नब्रह्मतत्त्वे सम्यग्ज्ञाते सति अस्मिन्प्रत्यक्तत्त्वेऽखिलमध्यस्त विश्वमिदं विदितमित्यन्वयः । वेदान्तेभ्य उत्तिष्ठतीति वेदान्तोत्था अमला या धिषणा ब्रह्मविद्या तया वेदान्तजन्यनिर्मलप्रज्ञयेत्यर्थः । सुगममन्यत् ।। ८२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy