SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्तत्त्वचिन्तामणा यदविदितमखण्डं मातृमानादिविश्व सजति विदितमेकं भाति मानादिशून्यम् । तदहममृतमीशं सर्वदा शान्तमूर्ति सकलसुरललामं कृष्णतत्त्वं श्रयेऽन्तः ॥८॥ एवं प्रकरणार्थ परिसमाप्य तत्फलं कृष्णानुसन्धानं महीकुर्वन्नुक्तमर्थ संक्षिप्य दर्शयति-यदिति । तत्कृष्णाख्यं तत्त्वं ब्रह्म अन्तः श्रये-स्वात्मत्वेन प्रत्यगभिन्नस्वरूपमनुसन्दधे, इत्यन्वयः। तत्किमित्याकाङ्क्षायामाह-यदिति । यद्वस्तुतोऽखण्डमेवाविदितमज्ञातं सन्मातृमानादिविश्वं सकलं सृजति। यच्च विदितं सम्यक्साक्षास्कृतं सदेकं मात्रादिव्यवहारानास्पदं भाति प्रकाशते। तदमृतममृतवदास्वाधं सर्वदा कालत्रयेऽपि शान्ता मायातकार्यकृतक्षोभशून्या मूर्तिः सच्चिदानन्दविग्रहो यस्य तदीशं मायावित्त्वेन प्रसिद्धमपि सकलसुराणां ब्रह्मेन्द्ररुद्रादीनां ललाम तन्मुकुटमणिधृष्टचरणारविन्दतया मस्तकभूषणम् ; येन सर्वे ब्रह्मादयः सुराः शोभन्ते तदित्यर्थः ।। ८३ ॥ श्रवणविधिबलेनाद्वैततत्वं विशुद्धं परमसुखमखण्डं शुद्धबुद्धिर्विदित्वा। वनति पदमगाधं यत्प्रसादाद्विमोक्षं तमहमखिलनार्थ श्रीमुकुन्दं प्रपद्ये ॥४॥ इति प्रत्यक्तत्त्वचिन्तामणौ प्रथमं प्रकरणं सम्पूर्णम् ॥ १ ॥ एवं सर्वाधिष्ठानत्वेन सर्वोपास्यत्वेन भगवन्तं श्रीमुकुन्दमनुसन्धाय मुमुक्षोस्तत्वज्ञानपूर्वकमोक्षप्रदत्वेन तमनुसन्धत्ते-श्रवणेति । स्पष्टार्थ पद्यम् ॥८४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy