SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ पश्चमं प्रकरणम् । एतत्पक्षे फलितमाह - तदिति ॥ १११ ॥ २१५ अविद्योपाधिको यहि जीवः सर्वगता मतः । तदा वृत्तितिरोधायिधिया सिद्ध्येद् व्यवस्थिति: ११२ कार्य्यस्याप्यस्त्युपादानतिरोधायकता यतः । दृष्टा वृक्षादिकार्य्यस्य स्वोपादानतिरस्कृतिः ॥ ११३॥ मृत्स्वरूपं न वृक्षादौ प्रत्यभिज्ञायते क्वचित् । न वा वृश्चिकदेहेऽपि गोमयं ज्ञायते स्फुटम् ॥ ११४ ॥ विद्योपाधिकः सर्वगता जीव इत्यस्मिन् पक्षेऽपि व्यवस्थाया नानुपपत्तिरित्याह- अविद्यति । यदा चाविद्योपाधिकः सर्वगता जीवः, तदाप्यावरणतिरोधायकेनान्तः करणेन व्यवस्था सिद्ध्येत् । सम्भवति हि कार्य्यस्याप्युपादानतिरोधायकत्वम्, वृश्चिकवृक्षादिकार्य्यस्य गोमयमृदादिकारणस्वभावतिरोधायकत्वदर्शनात् । नहि वृश्चिकशरीरे गोमयं प्रत्यभिज्ञायते, वृक्षादौ वा मृत्स्वरूपमिति त्रयाणां योजना ।। ११२, ११३, ११४ ॥ तदेवं सर्वथा वेदमौलिवादिमतेऽञ्जमा । मात्रादिव्यवहारस्य सिद्धिर्नान्यमते नयैः ॥ ११५ ॥ फलितमुपसंहरति--तदेवमिति ॥ ११५ ॥ पूर्वपूर्वाहमुद्भूतप्रमातृत्वादिगेोचरैः । संस्कारैः सविकल्पे चिद्रूपेऽध्यासेाऽस्त्यहङ्कृतेः ११६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy