SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ११८ प्रत्यकूतत्त्वचिन्तामयौ नहि प्रमाणं खलु साधकं सत् स्वसिद्धयेऽप्यन्यदपेक्षते यत् । इतीष्यते चेच्छुणु भाः समाधिं स्वयंप्रकाशं यदि मानमेवम् ॥ १३ ॥ । एवं पूर्वपतमनूय समाधत्ते - इतीति । तथा च प्रतीतिमात्र प्रमाणाधीनमिति सासहं त्वया त्यक्तव्यमिति भावः ॥ १३ ॥ हन्ताऽस्य विश्वस्य तदाऽखिलस्य प्रमाणमेयात्मन प्रासमन्तात् । यः साधकः प्रत्यगयं कथं स्यात् • स्वाधीनमानेन हि सिद्ध एषः ॥ १४ ॥ श्रात्मनः स्वभानेऽन्यानपेक्षत्वं कैमुत्येन साधयति — इन्तेति । हन्तेति अनुमतैा । स्वप्रकाशस्य स्वभासनेऽन्यानपेचत्वमिति यदुक्तं तत्र ममाप्य - नुमतिरस्तीत्यर्थः । प्रमाणप्रमेयादिरूपस्य समस्तस्य जगता येोऽयं प्रत्यगात्मा सर्वतः स्वसत्तास्फूर्तिदानेनावभासकः स एव स्वाधीन सिद्धिकेन कथं हि सिद्ध: स्यादिति योजना ॥ १४ ॥ मानप्रवृत्तेः स पुरा चिदद्वयः प्रमातृरूपोऽखिल साक्षिरूपधृक् । सिद्धोऽन्यथा मानमसिद्धमातृकं स्वरूपमेवापि कथं लभेत तत् ॥ १५ ॥ * तदिति पाठः साधु प्रतीयते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy