________________
तृतीयं प्रकरणम् ।
११६ प्रमाणप्रवृत्तेः प्रागात्मनः प्रमातृसाक्षिरूपेण सिद्धत्वादपि न तदपेक्षेत्याह-मानेति । विपक्षे बाधकमाह-अन्यथेति । प्रमाणप्रवृत्तेः प्रागात्मनोऽसिद्धत्वेन पूर्वसिद्धः प्रमाता यस्य तत्प्रमाणं स्वरूपमेव कथं लभेत ? न हि प्रमातृसिद्धिमन्तरेण प्रमाणशरीरं सम्भवतीत्यर्थः ॥ १५ ॥
सर्वस्य मातारमिदं प्रमाण
मात्मानमेकं विषयं प्रकर्त्तम् । क्षम कथं स्यादपि कर्मकर्त
विरोधतोऽन्यस्य न मातृता वा ॥१६॥ आत्मनस्तदपेक्षत्वे युक्तिविरोधमाह-सर्वस्येति । इदं प्रमाणं कर्तृ सर्वस्य प्रमातारमात्मानमेकं स्वव्यतिरिक्तप्रमातृशून्यं कर्मतया कथं विषयीकर्तुं क्षमं स्यात् ? नहि विषयिणं प्रत्यञ्च दीपवत्स्वप्रकाशं घटादिवद्विषयभूतं प्रमाणं विषयोक क्षमते इत्यर्थः। किञ्च, आत्मनि प्रमाणप्रवृत्तौ प्रमाता किमात्मैव ? किं वाऽनात्मा ? प्राचं दूषयति-कम्र्मेति । एकदैव गुणप्रधानभावो विषयविषयिभावेनैकस्मिन् विरुद्ध इत्यर्थः । द्वितीयं दूषयति-अन्यस्येति । अनात्मनो जडत्वादेव प्रमातृत्वानुपपत्तिरित्यर्थः ॥ १६ ॥ येनात्मना मानमुखमपञ्चः
प्रसिद्धिमायाति चराचरात्मा। तस्याऽस्य सिद्धौ यदि मानवाञ्छा
भवेत्तवाहो मतिवैभवं तत् ॥ १७॥ प्रमाणमन्तरा कथमात्मसिद्धिरिति वदन्तं प्रत्युपहसतियेनेति ॥ १७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com