SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ द्वितीयं प्रकरणम् । निदिध्यासनमैकाठयं श्रवणे मननेऽपि च । निदिध्यासनसज्ञञ्च मननञ्च द्वयं बुधाः ॥ १६ ॥ निदिध्यासनं लक्षयति-निदिध्यासनमिति । श्रवणे मननेऽपि श्रवणमननाभ्यां विनिश्चितेऽर्थे चित्तसमाधान विजातीयप्रत्ययतिरस्कारपूर्वकसजातीयप्रत्ययप्रवाहीकरणलक्षणं निदिध्यासनं नामेत्यर्थः ॥ १६ ॥ फलोपकारकाङ्गं स्यात्तनासम्भावना तथा। विपरीता च निर्मूलं प्रविनश्यति सत्तमाः ॥ १७ ॥ तयोः फलमाह-निदिध्यासनसंज्ञमिति सार्द्धन। श्रवणेन तत्त्वसाक्षात्कारे फले जननीये द्वयमप्युपकारकाङ्गं स्यादिति तेन द्वयेन मननेनासम्भावना प्रमाणप्रमेयगत्या विनश्यति। निदिध्यासनेन विपरीता देहाद्यात्मत्वाभिमतिरूपा निर्मूलं यथा स्यात्तथा प्रविनश्यति है सत्तमा हे बुधा इति योजना ॥ १७ ॥ प्राधान्यं मननादस्मिन्निदिध्यासनतोऽपि च । उत्पत्तावन्तरङ्गं हि ज्ञानस्य श्रवणं बुधाः ॥१०॥ अवणस्य प्राधान्यं सोपपत्तिकमाह-प्राधान्यमिति। मननानिदिध्यासनतोऽपि चास्मिन् श्रवणे प्राधान्यमस्ति कुतः ? इत्यत आह-ज्ञानस्योत्पत्तौ श्रवणं हि यस्मादन्तरङ्गं साक्षात्तत्त्वज्ञानसाधनमित्यर्थः ॥१८॥ तटस्थमन्यव्यावृत्त्या मननं चिन्तनं तथा। इतिकर्तव्यकाटिस्थाः शान्तिदान्त्यादयःक्रमावाद। मननध्यानयोस्तदङ्गत्वमाह-तटस्थमिति । अन्यव्यावृत्त्या प्रसम्भावनादिदोषनिरासेन तद्रूपं तटस्थं श्रवणाणतया साक्षात्तत्वसाधन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy