SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ८२ प्रत्यकूतत्त्वचिन्तामणैौ मैवम् एतच्छ्रुतितात्पर्यस्यैव पुराणेषु प्रतिपादितत्वादित्याशयेनाह - तथैवेति । यथाऽऽत्मदर्शनमुद्दिश्यैव श्रवणादिविधिरिति श्रुतितात्पय्र्य तथैव पुराणे प्रतिपादितमिति योजना || १२ | श्रोतव्यः श्रतिवाक्येभ्यो मन्तव्यश्चापपत्तिभिः । ज्ञात्वा च सततं ध्येय एते दर्शनहेतवः ॥ १३ ॥ तान्येव पुराणवचनानि दर्शयति — ' श्रोतव्यः' इत्यारभ्य 'तद्धि विज्ञानमीश्वरम्' इत्यन्तैः पञ्चदशभिः । श्रुतिवाक्येभ्यस्तच्वमस्यादिभ्यः । उपपत्तिभिः श्रुत्यनुकूलतर्कैः । ज्ञात्वा च श्रवणमननाभ्यां विनिश्चित्य सततं दीर्घकाला दनैरन्तर्येण ध्येयो निदिध्यासितव्य इत्यर्थः । एते परस्पराङ्गाङ्गिभावेन दर्शनस्य साक्षात्कारस्य हेतव: उत्पादका भवन्तीत्यर्थः ॥ १३ ॥ तत्र तावच्छ्रतिमोक्तं श्रवणं नाम केवलम् । उपक्रमादिभिर्लिङ्गैः शक्तितात्पर्य्यनिर्णयः ॥ १४ ॥ सर्ववेदान्तवाक्यानामाचार्य्यमुखतः प्रियात् । वाक्यानुग्राहक न्यायशीलनं मननं भवेत् ॥ १५॥ तत्र तावच्छ्रवणं लक्षयति - तत्रेति । त्रिषु मध्ये तावदादा केवलमङ्गित्वेन प्रधानं श्रवणं नाम प्राचार्यमुखात् सर्वेषां वेदान्तवाक्यान गतिसामान्यन्यायेनेोपक्रमोपसंहाराभ्यां सापूर्वताफलार्थवादोपपत्तिरूपैर्लिङ्ग र द्वितीये ब्रह्मणि तात्पर्यावधारणमिति सार्द्धस्य योजना | मननं लक्षयति-वाक्येति । श्रुतिवाक्यानुग्राहकतकैः श्रुतार्थस्य शोलनं सम्यकू चिन्तनं मननं नामेत्यर्थः ॥ १४-१५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy