SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ३२ __ प्रत्यक्तत्त्वचिन्तामणैा तद्रूपः सिद्ध्येदाचार्यमूर्तिस्थभगवत्प्रसादादनायासेनैव भवति। जन्तोरधिकारिणो मुमुक्षोरेतेन यथोक्तबोधेन भव एव दुस्तरत्वादिगुणविशिष्टतया जलनिधिः समुद्रस्तस्मात् तत्त्वबोधवाधितान्मुक्ति: स्वस्वरूपावस्थानलक्षणा सिद्धा, न तु साध्या; चतुर्विधकर्मफल विलक्षणत्वादित्यर्थः ॥ २४ ॥ विष्णोरङघ्री हृदि धृतवतः शुद्धबुद्धेर्मुमुक्षो वैराग्यादि प्रबलकरणं तत्प्रसादादुदेति । माप्याचार्य निरवधिपदमाप्तिनिष्ठानिविष्टं भक्तिश्रद्धाप्रवणमनसा संश्रयेत्तं स धीमान् ॥२५॥ भगवत्प्रसादलब्धतत्त्वज्ञानान्मोक्ष इत्युक्तमेवार्थ विस्तरेण निरूपयिष्यन् जिज्ञासूनां प्रवृत्तिविशेषसिद्धार्थ "आचार्यवान्पुरुषो वेद" ( छा०६ । १४ । २ ) "प्राचार्याद्वैव विद्या विदिता साधिष्ठं प्रापयति" (छा० ४ ५ ६ । ३) “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ" ( श्वे० ६ । २३ ) "तद्विज्ञानार्थ समित्पाणि: श्रोत्रियं ब्रह्मनिष्ठम्" । ( मु० १ । २ । १२ )"तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया"। (गो० ४ । ३४) इत्यादिश्रुतिस्मृतिसहस्रैः सद्गुरूपसदनसेवनादिनियमपूर्वक श्रवणादिभिर्वेदान्तार्थावगति: फलाय, न मेवाविनाऽपि स्वयमेव ग्रन्थपरिशीलनादिभिरिति नियमं प्रदर्शयन्नेव तत्त्वज्ञानोपदेशक्रम शिक्षयति - विष्णोरध्रीति । भगवत्पादाम्भोजद्वय हृदि धृतवतोऽत एव शुद्धा कामाद्यैरकलुषिता बुद्धिर्यस्य तस्य मुमुक्षोर्मोक्षमात्रैकनिष्ठस्य तस्य भगवतः प्रसादाद्वैराग्यमिहामुत्रार्थफलभोगविरागः, आदिपदेन शमादिसम्पत् । प्रबलञ्च तत्करणञ्च साधनेषु प्राबल्यञ्च तत्पौष्कल्यमेवोदेति । तथा च भगवत्प्रसादलब्धसाधनचतुष्टयसम्पनोऽधिकारी धीमान परीक्ष्यकारी स चाचार्य दैशिकवर्य निरवधिपदे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy