________________
२०८
प्रत्यक्तत्त्वचिन्तामणी शनसिद्धये ? इति विकल्प्य, प्राद्यमनूद्य दूषयति-नन्विति । चित्सम्बन्धादेव प्रकाशसिद्धावुपाधिवैयर्थ्यादित्यर्थः ।। ७८-७६ ॥
न वा सत्यपरागेऽपि विषये भानसिद्धये। अपेक्ष्यतेऽन्तःकरणोपाधिरित्यपि साम्प्रतम् ॥८०॥ द्वितीयं दूषयति-नेति ।। ८० ॥ चिद्योगादेव तद्भानं सिद्धा सत्यामुपाधिना। प्रयोजनं न पश्यामः स्वप्रकाशतयाऽऽत्मनः ॥८१॥
ननु स्वस्वरूपाभिव्यक्तिसिद्धये तदपेक्षा किन्न स्यात् ? इत्यत माह-स्वप्रकाशतयेति । स्वप्रकाशतयैव नित्यसिद्धस्यात्मनो न तदपेक्षेत्यर्थः ॥ १ ॥
तस्मादुपाध्यसम्बन्धाच्चिता सर्वगयाऽखिलम् । संयुक्तमिति सर्वस्य युगपद्भानमापतेत् ॥२॥
तत्किमित्यत आह-तस्मादिति। यस्मादसङ्गस्योपाधिसंसर्गो न सङ्गच्छते । तस्माच्चिता सर्वगया समस्तं जगत्संयुक्तं सम्बद्धमिति सर्वस्य युगपद्भानप्रसङ्गात् प्रतिकर्मव्यवस्थानुपपत्तिरेवेत्यर्थः ।। ८२ ॥
अथ जीवे परिच्छिन्ने नैकदा भानमापतेत् । ब्रह्मणश्चेत्तदिष्टत्वादभेदेऽपि भिदा भ्रमात् ॥८॥
परिहारान्तरं दूषयितुमाशङ्कते - अथेति। अथ किं प्रतिबिम्बभूतजीवचैतन्यस्य युगपत्सर्वाऽवभासकत्वमापादयसि ? किं वा बिम्बभूतब्रह्मचैतन्यस्य ? नाद्यः, तस्य परिच्छिन्नत्वात् । न द्वितीयः, इष्टत्वात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com