________________
पञ्चमं प्रकरणम्।
२०६ जीवब्रह्मणोर्भेदाभावेऽपि किञ्चिज्ज्ञत्वसर्वज्ञत्वे असङ्कीर्णे बिम्बप्रतिबिम्बयोरवदातत्वश्यामत्वे इवेत्यर्थः ॥ ८३ ॥
तथा सत्यपि जीवस्य किञ्चिज्ज्ञत्वमपि ध्रुवम् । न स्यात्सार्वज्यवद् ब्रह्म विषयानुभवो यतः ॥८४॥
दूषयति-तथा सतीति । विषयानुभवस्य ब्रह्मचैतन्यरूपतया सर्वज्ञत्ववदहङ्कारावच्छिन्नजीवाऽनुसङ्गाभावाज्जीवस्य किञ्चिज्ज्ञत्वमपि न स्यादित्यर्थः ॥ ८४ ॥
अथान्तःकरणोपाधेश्चक्षुरादिभिरिन्द्रियैः। घटादियोगाज्जीवस्य ज्ञातृत्वं घटते जडे ॥५॥
जीवोपाधेरन्तःकरणस्य चक्षुरादिद्वारा विषयसम्बन्धाज्जीवस्य विषयज्ञातृत्वं घटते इति शङ्कते-अथेति ॥८५॥
तथाप्युपाधिसंसृष्टवस्तुज्ञातृत्व एष यः। जीवो ब्रह्मस्वरूपं स जानीयात्सर्वदा स्वयम् ॥६॥
अन्तःकरणसंसृष्टवस्तुज्ञातृत्वे ब्रह्मस्वरूपमपि जीवः सर्वदा जानीयादिति दूषयति-वथापोति ॥८६॥
ब्रह्मणः सर्वगस्यान्तःकरणे सत्त्वसम्भवात् । अन्यथा ब्रह्मणः सर्वव्यापित्वं नैव सम्भवेत् ॥७॥ तत्र हेतुमाह-ब्रह्मण इति । विपक्षे बाधकमाह--अन्यथेति ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com