SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रकरणम् । २११ पूर्वपक्षमुपसंहरति-तस्मादिति । समाधान प्रतिजानीतेइति शङ्कायामिति ॥ ६३ ॥ जीवचैतन्यमन्यत्रासङ्गित्वानोपरज्यते। तदन्तःकरणोपाधी स्वभावादुपरज्यते ॥४॥ प्रतिज्ञातं विवृणोति-जीवेति । जीवचैतन्यमसङ्गितयाऽन्यत्रानुपरज्यमानमप्यन्तःकरणे उपरज्यते, तादृशस्वभावत्वादिति योजना ॥४॥ यथा सर्वगता जातिगौत्वाखत्वादिरूपिणी। सास्नादिसंयुतव्यक्तौ स्वभावादुपरज्यते ॥६५॥ न सोपरज्यतेऽन्यत्र तद्वदन्यत्र सर्वगा। चिनोएरज्यते सैव स्वोपाधावुपरज्यते ॥८६॥ . तत्र दृष्टान्तमाह-यथेति। यथा सर्वगताऽपि गोत्वादिजातिः सास्नादिमद्व्यक्तावुपरज्यते, नाऽन्यत्र, तद्वत् चित् चैतन्यमपि सर्वव्यापि नाऽन्यत्रोपरज्यते, सैव चित् स्वोपाधावन्तःकरणे उपरज्यते इति द्वयोर्योजना ॥ ६५-६६ ॥ यदि सर्वगता जातियक्तिष्वेवावतिष्ठते । न दृष्टान्तस्तदा दापप्रभा दृष्टान्त इष्यताम् ॥६॥ सा हि रूपरसस्पर्शगन्धवाय्वादिदेशगा। व्यापिन्यपि समा रूपं प्रकाशयति नापरम् ॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy