SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १८८ प्रत्यक्तत्त्वचिन्तामणौ दिति शङ्कामनद्य दूषयति-नेति। न वा पूर्वाहमः सकाशात् समुस्थेन पूर्वाहङ्कारकृतप्रमातृत्वादिसंस्कारेणोत्तरोत्तरप्रमातृत्वा कहेतुनानादिप्रवाहात्मकेन चैतन्यस्य सविकल्पत्वं स्यात्-इत्यपि साधुमतमित्यर्थः ॥८॥ न प्रमातृममाणादिव्यवहारोऽपि युक्तिभिः । उपपादयितुं शक्यः समस्तैरपि वादिभिः॥६॥ प्रमातृप्रमाणादिव्यवहारस्य सर्वेणापि वादिना दुरुपपादत्वादपि नाध्याससम्भव इत्याह-नेति। स्पष्टम् ॥ ६ ॥ वेदान्तिसांख्ययोः पक्षे प्रमाता किमहङकृतिः। उतात्मा तत्र नाद्यः स्याज्जडत्वादप्यहकृतेः ॥१०॥ दुरुपपादत्वमुपपादयति-वेदान्तीति । वेदान्तिसांख्ययोर्मते किमहङ्कारः प्रमाता ? उत आत्मा ? नाघः, तस्य जडत्वादिति योजना ॥ १०॥ द्वितीयेऽपि प्रमाणाख्यक्रियारूपेण सर्वगे। कूटस्थे परिणामित्वं प्रमातृत्वं कथं भवेत् ॥११॥ द्वितीयमनिष्टापत्त्या दूषयति-द्वितीयेऽपीति। प्रमाणाख्यक्रियारूपेण परिणामित्वं प्रमातृत्वम् । तच्चाविकारिणि सर्वगे आत्मनि दुःसम्पादमन्यथा कौटस्थ्यभङ्गादिदूषणमित्यर्थः ।। ११ ॥ ममातृत्वं विना तेन चैतन्येन जडप्रथा। चेत्तया सर्वगत्वेन युगपत्सर्वभासनम् ॥ १२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy