________________
प्रथमं प्रकरणम् ।
५५ लिङ्गदेहः सुप्तौ सुषुप्त्यवस्थायां स्वहेत्वविद्यायां लयमेति । त्वं तदभावप्रकाशकतया तत्कारणस्याज्ञानस्य साक्षाद् द्रष्टा। घटादिवल्लिङ्गदेहः साक्षिभास्यतया दृश्यो दर्शनकमवास्ति। त्वमेतत्संसर्गरहितत्वात्स्वच्छदृगसि। स्फूर्तिरूपतया कस्यापि ज्ञानस्य कर्म न भवसि । अयन्त्वभ्रादिपदार्थवदत्यन्तचलतया न स्थायी । त्वन्तु स्थिरः, तद्भावाभावसाक्षितया नित्यकूटस्थोऽसि । विविधानेककलनारूपतयानेकोऽनेकावयवसमुदायो लिङ्गदेहोऽस्ति । त्वं सर्वावस्थासु साक्षिरूपेण सोऽहमिति प्रत्यभिज्ञायमानत्वादेकोऽसि। अतस्त्वं तस्माल्लिङ्गदेहाद्भिन्नोऽतीवविलक्षणः शुद्धं देहद्वयतद्धर्मासंस्पृष्टतया निर्मलमात्मतत्त्वं प्रत्यगात्मस्वरूपम् "असंगो ह्ययं पुरुषः" (४ । ३।१४) "असंगो नहि सजते" (बृ० ४।४। २२) "सपर्यगाच्छुक्रमकायमत्रणम्' ( ई०८) "अप्राणो हामनाः शुभ्रः” ( मुण्ड० २ । १ । २। ) इत्यादिनिगमकदम्बैर्विद्धि, जानीहीत्यर्थः ॥ ४३ ॥
धीधर्माणां भ्रमजनिधियां साक्षिणः सिद्धिरिष्टा
तत्प्रत्यक्षं न हि करणजे ह्यान्तरत्वादमीषाम् । भावाभावौ सकलमनसां वेत्ति साक्ष्येव तस्माद्
ज्ञेयो भिन्नः सकलकरणात्प्रत्यगात्माऽनुभूत्या ४४ स्यादेतत्, यदि कश्चित्साक्षी देहद्वयविलक्षणः सिद्धत्, प्रमात्रादिचतुष्टयेन समस्तव्यवहारसंभवात्, साक्षिकल्पनां विनाऽनुपपत्त्यभावात्, साक्षिस्वरूपानिरूपणाच्च । तथाहि-न तावज्जीवान्तर्गत: साक्षी, तथात्वे प्रमातैवासी भवेत् । नहि साक्षित्वं नामापरमस्ति । ब्रह्मान्तर्भावे तु तस्य श्रुत्यैकसमधिगम्यत्वात् संसारसमये नाविर्भावाच्च । साक्षिप्रत्यक्षं नाम व्यवहाराङ्गत्वेन वेदान्तवादपरिकल्पितं न सिद्ध्येत् । यत: सकलकरणगोचरत्वाञ्च न प्रत्यक्षगम्य: । नाप्यागमो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com