SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्रत्यकूतत्त्वचिन्तामणी जीवब्रह्मणोरन्यतरस्य तद्व्यतिरिक्तस्य साक्षित्वं प्रतिपादयन् दृश्यते । तस्मात्प्रमाणाभावान्न साक्षी नाम कश्चिदस्तीत्याशक्य सर्वैरपि साक्षिस्वरूपमभ्युपगन्तव्यम्, अन्यथा व्यवहारानुपपत्तेरित्यभिप्रेत्याह -- धीधर्माणामिति । ज्ञानरागद्वेषप्रयत्नादीनां बुद्धिधर्माणां तावदनुभूयमानत्वमुपलभ्यते । न च तेषां प्रमाणगम्यत्वमस्ति । प्रत्यक्षं तावद् द्विविधमभ्युपगतं बाह्यमाभ्यन्तरश्च । न तावद् बाह्य: प्रत्यक्षं ज्ञानादिग्राहकम्, तस्यात्मनि प्रवृत्त्यभावादित्यभिप्रेत्याह - तत्प्रत्यचमिति । अमीषां बुद्धिधर्माणां हि परैरपि आत्मधर्मत्वाभ्युपगमेनान्तरत्वं स्वीकृतमिति प्रसिद्विद्योतनाय हिशब्दः । न च मनोजन्य प्रत्यक्षत्वमपि तेषां सम्भवति, वृत्तिविषयवृत्त्यन्तरानङ्गीकारात् कर्मकर्तृ विरोधप्रसङ्गाच्च; विमता धीधर्माः स्वातिरिक्तग्राहक ग्राह्याः, अचेतनत्वाच्छब्दादिवदित्याद्यनुमानाच्च । परिशेषात्साक्षिप्रत्यक्षगम्यत्वमेव तेषामित्यभिप्रेत्याह - साक्षि इति । साचादेतद्रष्ट भूतात्साचिणः सकाशादेतेषां सिद्धिरिष्टा विद्वद्भिरिति शेषः । किञ्च भ्रमजनिधियां भ्रान्तिजनितप्रत्ययानां सिद्धिर्न तावत्प्रमाणात्, तेषां प्रमाणबाध्यता विरोधातू, न स्वत:, तेषां परतस्त्वस्वीकारात् । परिशेषात्साक्षिण एव तत्सिद्धिः । किञ्च, सकलमनसां समस्तबुद्धिवृत्तानां भावाभावा आविर्भाव तिरोभावा साक्ष्येव वेत्ति । तस्मात्सकलकरणात् समस्तलिङ्गशरीरात् प्रत्यगात्मा त्वंपदार्थो भिन्नः अत्यन्त विलक्षणो ऽनुभूत्या स्वप्रकाशमहिम्ना स्वात्मत्वेनैव ज्ञेयो बोद्धव्य इत्यर्थः । अतस्तत्त्वमसीति वाक्यप्रमाणज्ञानादज्ञानाभिभवे सति स एव साक्षी संसारापमर्हेनावभासमाना ब्रह्मभाव इत्युच्यते । साक्षिरूपस्य स्वयंप्रकाशत्वेन प्रत्यक्षत्वाच्च न प्रमाणवेद्यत्वप्रसङ्गः । तस्मात्प्रमातृप्रमाणप्रमेयप्रमितिभेदविभ्रमाधिष्ठानतया प्रतिभासतस्तदन्तर्भावेऽपि वस्तुतो ब्रह्मत्वमेवेति न किञ्चिदनुपपन्नमिति भावः ॥ ४४ ॥ " तत्साक्षिणः ५६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy