________________
५४
प्रत्यक्तत्त्वचिन्तामा जाग्रत्कालादितरसमये नान्वयो यस्य दृष्टः तस्माद्भिन्नोऽनुभववपुषा प्रत्यगात्मा विभाति ॥४२॥
एवं देहद्वयतधर्मेभ्यः प्रत्यगात्मानं विविच्यापि सर्वजनानां देहाभिमानस्य दृढतरत्वात्तस्यैव सर्वानर्थमूलत्वात्तत्परित्यागमात्रेण च मोक्षस्य करप्राप्तप्रायत्वात्तन्निरासाय "बहुकृत्वोऽपि पथ्य वदितव्यम्" इति न्यायेन देहासारता प्रतिपादयन् पुनश्च ततः प्रत्यगात्मानं विवेचयतियोऽयमिति। योऽयं सर्वप्रत्यक्षसिद्धोऽनिर्वाच्याज्ञानकार्यत्वादनृतजडात्मको देहः जन्मन:प्राक पूर्वमभावो यस्य स प्रागभावप्रतियोगितया घटादिवदनित्यः, अत एव मृत्युग्रस्तो ध्वंसप्रतियोगी, अखिल्लमलानां विण्मूत्रश्लेष्माऽसृगादीनामागारभूतः कथं त्वंपदार्थः स्यादिति सम्बन्धः । तथा च अत्यन्तसारत्वाद्विवेकिना अनात्मत्वेन निश्चेतुं शक्योऽयं देहो मृत्पिण्डादिवदचेतनत्वान्न कथमपि त्वंपदार्थ इति भावः । किञ्च, जन्मनः प्राङ मरणादूर्ध्व नास्तीत्येतावतैवानित्य इति न, अपितु जाग्रस्कालादितरसमये स्वप्नसुषुप्तिमूस्विपि यस्य देहस्यान्वयोऽनुवृत्तिर्न दृष्टः; स कथं नित्यः सर्वावस्थानुगतस्त्वंपदार्थः स्यात् ? तस्मात्स्थूलदेहात्प्रत्यगात्मा त्वंपदार्थोऽनुभवरूपेण स्वप्रकाशचिद्रूपतया भिन्नोऽत्यन्तविलक्षण: साक्षी स्वज्योतिषा प्रकाशते इत्यर्थः ॥ ४२ ॥
सूक्ष्मः सुप्तौ व्रजति विलयं त्वं सुषुप्त्यैकसाक्षी
दृश्योऽसौ त्वं दूगसि विमलस्त्वं स्थिरश्चञ्चलोऽयम् । एकोऽसि त्वं विविधकलना लिङ्गदेहोऽस्त्यनेको भिन्नोऽतस्त्वं निगमवचनैर्विद्धि शुद्वात्मतत्त्वम् ४३
एवं देहादिभ्यो विविक्तं त्वंपदार्थ प्रत्यगात्मानमनुभवारोहाय सूक्ष्मशरीराद्विरुद्धधर्मतया पृथक् कुर्वन्नुपदिशति-सुक्ष्म इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com