SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ चतुर्थ प्रकरणम् । १५३ तस्याऽर्थाध्यासस्य ज्ञानाध्यासस्य च करणं कारणं हि यस्मादान्ध्यमज्ञानमनाद्यनिर्वाच्यमविद्यादिशब्दवाच्यमुदितं कथितं विद्वद्भिरिति शेषः। यतः सदसतोजीननिवर्त्यत्वं नास्ति, यस्माच्च "तरति शोकमात्मविद् ( छा० ७ । १ । ३) इत्यादिश्रुतेरात्मज्ञानेनैव शोकोपलक्षितस्य संसारसमुद्रस्य तरणं श्रयते। अत आत्मज्ञाननिवयाऽज्ञानकार्याध्यासादेवाऽखिलविकाररूपस्य संसारस्य जन्ममरणप्रवाहरूपस्य कलना कल्पना चिदानन्दे स्वप्रकाशसुखस्वरूपे प्रत्यगात्मनि भाति प्रतीयते-इत्यपि निगमसिद्धं नययुतं युक्तियुक्तञ्चेत्यर्थः । अपिशब्देन यद्यपि वेदान्ता अद्वितीये ब्रह्मण्येव प्रमाणम् , नाऽज्ञानतत्कार्याध्यासादी, तथापि तत्प्रामाण्यान्यथानुपपत्त्या अज्ञानतत्कार्यमध्यासश्च कल्प्यते । न तु साक्षात्तन्निगमसिद्धमध्ययनविधिविरोधादिति सूच्यते ॥ २२ ॥ प्रपञ्चो व्यामादिस्त्वयमनृत भाविद्यकतया विवर्तश्चिद्व्योम्नः प्रकृतिशबलस्येशितुरितः। यथा स्वानं विश्वं दूशि कलितमाविद्यकतयाऽ वबुद्धेऽधिष्ठाने न च जगदभूनास्ति भविता ॥२३॥ नन्वस्तु जीवाविद्याकल्पितत्वात्तद्गतसंसृतेर्मिथ्यात्वम् , अाकाशादिप्रपञ्चस्यानादिसिद्धतया प्रत्यक्षादिभिरनुभूयमानस्य कथं मिथ्यात्वं स्यात् ? तथा च तस्मिन् सत्यत्वेनानुभूयमाने सति कथं मुक्तिः ? इत्याशङक्याह-प्रपञ्च इति। व्योमादिप्रपञ्चस्त्वयम् , तु शब्द शङ्कानिवृत्त्यर्थः, यतोऽयमनृतः सद्विलक्षणः सदसद्भ्यां निर्वस्तुमशक्यत्वादनिर्वाच्य इति यावत् । तथात्वञ्चाऽस्याऽनिर्वाच्या विद्याकार्यत्वादित्याह-प्राविद्यकतयति। नन्वीश्वराश्रितमायाकार्यत्वात्प्रपञ्चस्य कथमाविद्यकत्वम् ? इत्यत आह–प्रकृतिशबलस्येति । प्रकृतिर्माया २० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy