SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्तत्त्वचिन्तामा स्यादिति योजना । "सर्वाणि शास्त्राणि विधिनिषेधपराणि मोक्षपराणि चाऽविद्वद्विषयाणि'' इति भाष्यादित्यर्थः ॥ २६ ॥ परे द्वैतं युक्तयाऽप्यखिलमिदमध्यस्तमनृतं __ भवेद् भ्रान्तो सत्यां व्यवहरणयोग्यं खमलवत् । क्षमा मिथ्यावाद्या व्यवहृतिपदे स्वमसमये प्रबोधे मा सन्त्वस्त्वनृतमवभासात्मकमिदम् ॥३०॥ मिथ्यापदार्थोऽपि भ्रान्तिकाले व्यवहारसाधकः, तदाधे तु माऽस्तु, बाधितानुवृत्त्याऽस्तु वेति दृष्टान्तावष्टम्भेन साधयति-परे इति । युक्तयाऽपि परे परमात्मनि इदं समस्तं द्वैतं प्रपञ्चात्मकमनृतं सद्विलक्षणमध्यर' कल्पितमेव भवेत् सिद्धेवत्, भ्रान्तौ सत्याञ्च तत्तद्व्यवहार. योग्यमपि नीलं नभ इति व्यवहारवत् । ननु नीलं नभ इति व्यवहार एकविध एव दृश्यते, प्रपन्चे तु नानाविधविचित्रव्यवहारयोग्यतया विषमो दृष्टान्त हत्यपरितोषाद् दृष्टान्तान्तरमाह-क्षमा इति। स्वप्नसमये व्यवहारगोचरे मिथ्याऽश्वगजादयोऽप्यारोहणादिविचित्रार्थक्रियासमा दृष्टाः । प्रबोधे तत्त्वसाक्षात्कारे जागरण इव व्यवहारसमर्था मा सन्तु, तत्कारणस्य बाधादेव । यद्वा, बाधितानुवृत्त्याऽनृतमनिर्वाच्यमवभासात्मकं प्रतीतिमात्रशरीरमिदं सर्वमस्तु वा, तेन का हानिरित्यर्थः ॥३०॥ निजाज्ञानं देहाद्यखिलजगदाकारविकृति हवाप्तं ज्ञातं सज्जगदिदमनार्थविषयम् । न चाज्ञातं किञ्चिद् व्यवहरणयोग्यं भवति वा प्रतीतःमाक् पश्चादपि न च भवेत्भ्रान्तिजनितम्॥३१॥ प्रतीतिमात्र शरीरमित्युक्तमित्युपपादयति-निजेति। स्वाज्ञानमेव देहायखिलजगदाकारेण विकृति परिणाममवाप्तम् । हिशब्दः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy