________________
प्रत्यक्तत्त्वचिन्तामणी स्वान्तोपाधेर्भवति विकलो ब्रह्मभूतोऽपि जीवः
कर्मज्ञानाभयकरणतो ब्रह्मभावं ह्युपैति । केचित्माहुस्तदपि न समं वस्तुनो द्वैध्यभावाद्
भ्रान्त्या सिद्धवितयकलना वेदसन्न्यायबाह्या॥७६। वेदान्तज्ञम्मन्यानां केषाञ्चित्सम्मा मुक्तिं तन्निराकरणञ्च दर्शयतिस्वान्तेति । स्वता ब्रह्मभूतोऽपि जीवः स्वान्तोपाधेरन्तःकरणोपाध्यवच्छेदाद् विकलो भवति वस्तुतो भावान्तरभूतो भवति । कर्मज्ञानाभयानुष्ठानेन ब्रह्मभावं हि श्रुतिप्रसिद्धमुपैति । कर्मणोपाधिनिवृत्ती ज्ञानेन ब्रह्मभावो मोक्ष इति केचिदेकदेशिनः प्राहुः। तदप्यापातरमणीयम्, वस्तुना निरवयवस्य ब्रह्मयो वस्त्वन्तरेण कुठारेणेव द्वैध्यभावाच्छिशि. पादेरिव विदारणासम्भवे सति भावान्तरत्वानुपपत्तेः । भ्रान्त्या सिद्ध उपाधिसम्बन्धस्य भेदभ्रान्तिमात्रहेतुत्वादेव सिद्धे वस्तुनि अवितथकलना वस्तुतो भावान्तरकल्पना श्रुतितदनुकूलन्यायविरुद्धत्वात्ततो बाह्या वस्तुतोऽन्यत्वाभावे सति ब्रह्मभावस्यासाध्यत्वाच्च । तत्र कर्मयोपाधिनिवृत्तिानेन ब्रह्मत्वमिति स्वबुद्धा त्प्रेक्षितत्वादतीव तुच्छमिति भावः ॥ ७६ ॥
तस्माद् ब्रह्माद्वयसुखनिधि प्रत्यगात्मास्ति वस्तु
स्वाविद्योत्थाखिलभयनिधी जन्ममृत्युप्रवाहे । भ्रान्त्यावर्ते भ्रमति सपदि ब्रह्मविद्यार्कभासा
बाधित्वाऽऽन्ध्यं व्रजति परमं ब्रह्मभावंस मुक्तः।।७७॥ एवं मुमुक्षुभिरनादरणीयाननेकवाद्यभिमतान् मोक्षपक्षानिराकृत्य तदादरणीयश्रुतिमौलिसम्मतं मोक्षपक्षं दर्शयति- तस्मादिति पद्यत्रयेण । यस्मात् सर्वे वादिपरिकल्पिता मुक्तिपत्ताः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com