SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १२६ प्रत्यक्तत्त्वचिन्तामणी घटेऽज्ञातत्वव्यवहारोऽन्यथासिद्ध इत्याकाङ्क्षापूर्वकमुपपादयतिकथमिति। घटादेरज्ञानेन सहात्मन्यध्यस्तत्वात्तथा व्यवहार इत्यर्थः॥३५॥ घटाद्यधिष्ठानतया चिदात्माऽ ज्ञानावृतोऽज्ञात इति प्रतीतिः। मानमवृत्त रुदितात्मवृत्त्या ___ ध्वस्तांवृतिवृत्तिगतो विभाति ॥ ३६ ॥ सर्वत्र ज्ञानात( दि ? )व्यवहारोऽधिष्ठानभूतात्मन्येव पर्यवस्यतीत्याह--घटादीति । घटायधिष्ठानत्वेन चिदात्मैवाज्ञानावृतः । 'प्रज्ञान' इति च्छेदः। प्रमाणप्रवृत्तेरुद्धर्वमुदिता जाता या घटायधिष्ठानभूतात्मविषया वृत्तिस्तया ध्वस्ता निरस्ता आवृतिरावरणं यस्य स च घटाद्यधिष्ठानात्मा वृत्तिगतो विभातीति योजना। अयं भावः-घटावच्छिन्नचिदात्मा घटेन्द्रियसनिकर्षसमुद्भूतघटाकारान्तःकरणवृत्तिनिरस्ताविद्यः सन घटावच्छिन्नवृत्तौ प्रतिबिम्बितो घटं भासयतीति घटप्र. तीत्युपपत्तिः । एवं सकलजडप्रतीतिरप्यूह्यति ॥ ३६॥ तथा च सर्वैरपि यः पमाणैः सिद्धः कथं तस्य चिदात्मनस्ते। मतं प्रमाणाधिपतेः प्रमाणा भावादसत्त्वं हठमात्रमूलम् ॥ ३७॥ चिदात्मनः सर्वप्रमाणविषयत्वनिरूपणस्य फलमाह-तथा चेति ॥ ३७॥ कथं तदात्मा श्रुतिमात्रगम्यः सर्वैः प्रमाणैर्यदि गम्यतेऽनौ। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy