SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्तत्त्वचिन्तामणी ननु ब्रह्मात्मतत्वस्य निर्विशेषतया नहि। तज्ज्ञानहेतुता प्राप्तिरन्यतः श्रवणं विना ॥५१॥ नियमासम्भवं शङ्कते-नन्विति। ब्रह्मज्ञाने श्रवणं विनान्वय. व्यतिरेकादीनां नास्ति साधनभावप्राप्तिः, निर्विशेषस्य ब्रह्मणो वेदान्तैकसमधिगम्यत्वात् । तत्कथं नियमसिद्धिः, पक्षान्तरे प्राप्त्यभावादित्यर्थः ॥ ५१॥ मैवं यथाऽवघातेऽस्ति नियमः श्रवणे तथा। विनापि पाक्षिकी प्राप्तिमस्तु वाप्यत्रन क्षतिः॥५२॥ व्रीहीनित्यत्र शास्त्र कगम्यापूर्वीययोगिषु । अन्यतो दलनादेश्चाप्राप्तावप्युच्यते तथा ॥ ५३ ॥ समाधत्ते-मैवमिति। ब्रोहीनवहन्तीत्यत्र शास्त्रैकगम्यापूर्वीयब्रोहिष्वन्यतो दलनाद्यप्राप्तावप्यवधाते यथा नियमः, तथा श्रवणेऽपि पाक्षिकत्वमन्तरेणैव नियमोऽस्तु, तत्र न काचिदनुपपत्तिरिति द्वयोर्योजना ॥ ५२-५३ ॥ अथ सामान्यरूपेण तव प्राप्तिमपेक्ष्य चेत् । व्रीहिमात्रेऽस्ति नियमस्तदत्रापि समं तदा ॥५४॥ व्रीहिमात्रसमाकारस्तत्र यद्वत्तथाऽत्र च । विषयज्ञानमात्रेऽस्ति सामान्याकारसम्भवः॥५५॥ प्रकारान्तरेऽपि साम्यमाह-अथेति । अथ ब्रीहिमानसाधारणाकारेण प्राप्तिमपेक्ष्य तत्र नियमस्तदत्रापि समानं विषयज्ञानमात्रसाधारणाकारस्य सुवचत्वादिति द्वयोर्योजना ॥ ५४-५५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy