SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १८६ प्रत्यक्तत्त्वचिन्तामणौ . गृहीता भान्तीति" ( भामती ब्र० १।१।१)। "यथा खल्वभिज्ञायां भासमानमपि देवदत्तैक्यं तत्तेदन्तोपाधिद्वारकसामानाधिकरण्यात्परामर्शाद्विविक्तं नाल्लिख्यते । एवं चिद्रूपभानेऽपि दुःखप्रत्यनीकत्वादि. रूपेणापरामृष्टा आनन्दादयोऽप्यगृहीता इव भान्ति' इति कल्पतरौ ( कल्पत० ब०१।१।१)। "ननु देवदत्तो यमित्यभिज्ञायामिदमर्थे यद्देवदत्तैक्यं भासते, तद्विविक्तमुल्लिख्यते एव । यत्तु तत्र तत्ता. विशिष्ट्यैक्यं नालिख्यते, तन्न भासत एव । अतो भासमानस्य विविक्तोल्लेखाभावे नेदमुदाहरणमिति चेत्, न्; एकस्मिन्निदमर्थे ऐक्यदयाभावेन भासमाने एव देवदत्तैक्ये तत्तोपाधिपरामर्शाभावेन तत्तेदन्ताविशिष्टाभेदरूपतयोल्लेखाभावरूपस्य विविक्तानुल्लेखस्य विवक्षितस्य सत्वात् । तथा चाऽध्यस्तापकर्षयुक्ततया गृहीतोऽप्यानन्दो मेघावरणकृतापकर्षसौरालोकवदगृहीत इव भातीति तात्पर्य्यम्' इति परिमले (परि० ० १ । १ । १) तथा चाविषयेऽपि सामान्यादिधर्मविनिमुंक्तेऽपि स्वप्रकाशत्वेन भासमानतया प्रत्यगात्मन्यनाद्यविद्ययाऽध्यास: सिद्ध इति न काचिदनुपपत्तिः। तथा च भाष्यम्-"न तावदयमेकान्तेनाविषयोऽस्मत्प्रत्ययविषयत्वादपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः । न चायमस्ति नियम: पुरोऽवस्थितविषये विषयान्तरमध्यसितव्यमिति । अप्रत्यक्षेपि ह्याकाशे बालास्तस्लमलिनताद्यध्यस्यन्ति एवम विरुद्धः प्रत्यगात्मन्यप्यनात्माध्यासः' (ब्र० सू० भा० १ । १ । १) इति ॥४॥ अध्यासोऽहं ममेत्येवं सर्वानाश्रयो नृणाम्। तत्राऽहमिति चिद्व्यानि निविकल्पेभ्रमामहान् ॥५॥ तदेवं चैतन्यैकरसोऽनिदरूपोऽप्यात्मा स्वात्मनि अध्यस्तेऽहङ्कारे प्रतिबिम्बितोऽहमित्येतस्मिन्प्रत्ययेऽध्यस्यमानाहङ्कारसम्भिन्नतया भासमानोऽहं प्रत्ययविषयत्वेनोपचर्यत इति सम्भवत्येव। तत्राध्यासोड Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy