________________
पञ्चमं प्रकरणम्।
२२३ न चाऽऽविद्यकत्वादेतेषां प्रमातृत्वादीनां शुक्तिरजतादिवत्कथं प्रामाणिकव्यवहारसाधकत्वम् ? नहि मृगतृष्णाम्भसि स्नानादि. प्रामाणिकव्यवहारसिद्धिरित्याशक्याह-यावदिति । एते प्रसिद्धाः प्रमातृत्वादयो व्यवहारे ज्ञानपरिकल्पिते यावदज्ञानमज्ञानपर्यन्तमबाधिता अर्थक्रियासमर्थाः सन्ति । हीति लोकप्रसिद्धम् । भ्रान्तकाले भ्रान्तकार्यस्यार्थक्रियासमर्थलक्षणमबाधितत्वं स्वप्नादा दृष्टत्वात् नाऽनुपपन्नमिति भावः । तथैवाऽध्यक्षादिप्रमाणान्यपि अर्थक्रियासमर्थानि भवन्ति । न चैतत्स्वकपोलकल्पितमिति शक्यम्। साम्प्रदायिकत्वादित्याह-तदुक्तमिति । उक्तघटादिज्ञानप्रामाण्यमभियुक्तत्वेन प्रसिद्धरेतदेव साम्प्रदायिकैरप्युक्तमित्यर्थः ॥ १३५ ।।
देहात्मप्रत्ययो यद्वत्ममाणत्वेन कल्पितः। लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात् ॥१३६॥
साम्प्रदायिकवचनमेवोदाहरति-देहात्मेति। यथा देहात्मत्व. प्रत्ययः कल्पिता भ्रमोऽपि व्यवहाराङ्गतया प्रमाणत्वेनेष्यते वैदिकैः, तद्वल्लौकिकमध्यक्षादिकमात्मबोधावधिकव्यवहारकाले बाधाभावाद् व्यावहारिकं प्रमाणमिष्यताम् । वेदान्तानान्तु कालत्रयाबाध्यवस्तुबोधित्वात्तत्त्वावेदकप्रामाण्यमिति तु शब्दार्थः । आत्मनिश्चयाब्रह्मसाक्षाकारपर्यन्तमित्यर्थः । लौकिकमिति घटादिज्ञानमित्यर्थः ॥ १३६ ॥
घटादीनामुपाधीनां भेदेनैव चितो भिदा। उपाधीनां लये तस्माच्चैतन्यमवशिष्यते ॥१३॥
चैतन्यस्यैक्येऽपि विषयाशुपाधिभेदेनैव भेदो लौकिकव्यवहारविषयो ब्रह्मबोधे उपाधीनां बाधाच्चैतन्यमेवावशिष्यते इत्याह-घटादीनामिति ॥ १३७ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com