________________
२२२
प्रत्यक्तत्त्वचिन्तामणी वृत्तिज्ञानं मनोधर्मस्तथा कामादयः श्रुतेः। तदैक्याध्यासतश्चिद्गा भान्त्ययो दहतीतिवत्॥१३३॥
वृत्तिरूपज्ञानस्य मनोधर्मत्वं श्रुतिसिद्धमित्याह-वृत्तीति । 'कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्धा टरित्येतत्सर्व मन एव' ( पृ० १ । ५ । ३) इति श्रुतेः धीशब्दवाच्यस्य वृत्त्यात्मकज्ञानस्य कामादीनाञ्च मनोधर्मत्वम् । ननु कामादीनामहमित्या. द्यनुभवेनात्मधर्मत्वं किन्न स्यादिति तत्राह-तदैक्याध्यासत इति । तेनान्त:करणेनैकाध्यासादेवात्मनस्तद्धर्मा अपि कामादयश्चिद्गाश्चैतन्यनिष्ठतयाऽवभासन्ते । तत्र दृष्टान्तमाह-प्रय इति । अय:पिण्डस्य दग्धृत्वाभावेऽपि दग्धृत्वाश्रयवह्नितादात्म्याध्यासाद् यथा अयो दहतीति व्यवहारः, तथाऽऽत्मचैतन्यस्य सुखाद्याकारपरिणाम्यन्त:करणैक्याध्यासाद् 'अहं सुखी' इच्छामि, इत्यादिव्यवहारः, न तु वस्तुतः, तस्य निर्धर्मकत्वादित्यर्थः ॥ १३३ ॥
अतो निर्धर्मकत्वेऽपि व्यवहारस्थले चितः । प्रमातृत्वादयो धा स्वाविद्याकल्पिता अमी॥१३४
ननु निर्धर्मकस्यात्मनः कथं प्रमातृत्वादयो धर्माः प्रतीयन्ते ? न च तेऽप्यन्तःकरणस्य स्युरिति वाच्यम् , तस्य जडत्वात्प्रमातृत्वाद्यनुपपत्तेरित्याशक्याह-अत इति। यतश्चैतन्यस्याऽन्तःकरणेनैक्याध्यासात्तद्धांध्यासः, अतस्तस्य निर्धर्मकत्वेऽपि स्वाविद्याकल्पिता अमी सर्वलोकप्रसिद्धाः प्रमातृत्वादयो धस्तिदन्तःकरणैक्याध्यासादेव व्यवहारस्थले चितश्चैतन्यस्याऽवभासन्ते इत्यर्थः ॥ १३४ ॥
यावदज्ञानमेते स्युर्व्यवहारे ह्यबाधिताः। तथाऽध्यक्षादिमानानि तदुक्तं साम्प्रदायिकैः॥१३५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com