SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्तत्त्वचिन्तामणौ वल्ल्या विज्ञानादप्युत्तरत्र "आनन्दो ब्रह्मेति व्यजानात्" (तै० ३।६) इति दर्शितत्वात्, “यो विज्ञाने तिष्ठन् विज्ञानादान्तरः” इति सर्वान्तरस्य पृथनिर्देशाच्च। विज्ञानस्यापि साक्षो नित्यहक्स्वरूप: परमात्मान्योsस्तीत्याह-तस्मादिति। तस्मादुक्तहेतोरस्य विज्ञानमयस्य दृशिः साक्षादव्यवधानेन द्रष्टा, अमलोऽपगतनानामलसम्पर्कशून्य: चिदात्मा चिद्रूपत्वात्स्वप्रकाशः अन्तरात्मा सर्वान्तरत्वेन श्रुतिप्रसिद्ध आत्मा अस्ति, न नास्ति, तस्याभावे ग्राहकाभावान्निःसाक्षिकं विज्ञानादिजगदालोकासत्त्व इव रूपमस्ति नास्तीत्युपदेशानह खपुष्पायमाणं स्यादित्यर्थः। तथा च स्मृति: "असत्यस्मिञ्जगन्नाथे अन्धीभूतमिदं भवेत् । सूर्येणैव विहीनत्वान्निरालोकं जगद्यथा ॥" इति। अयं भाव:-"विज्ञानं यज्ञं तनुते" (०२१६) इति श्रुतिर्यज्ञ तत्फलोपभोगयोग्यं व्यावहारिकं सर्वान्तरात्मज्ञानोपायत्वेन प्रस्तुतं कोशविशेषमाह न पारमार्थिकमात्मानम् । अत एव तत्रत्यं सर्वपापआयसर्वकामावाप्तिफलकीर्तनमापेक्षिकस्यान्यत्र सिद्धहिरण्यगर्भोपास्तिफलस्यानुवादोऽर्थवादो वा अपापश्लोक* श्रवणवाक्यवत् । अन्यथाऽत्रैवोपक्रमोपक्षिप्तसर्वकामावाप्तिफलेनोपसंहारे ज्ञातव्यान्तरापरिशेषादभिलषितफलान्तरासम्भवाच्चोत्तरत्रानन्दमयकोशनिरूपणं पुच्छब्रह्मनिरूपणं तदुपपादनार्थ उत्तरो ग्रन्थश्च निरर्थकः स्यात् । “कती शास्त्रार्थवत्वात्" (ब्र० सू०२। ३ । ३३) इत्यादिसूत्राणि तु "तद्गुणसारत्वात्तु तव्यपदेशः” (ब्र० २ । ३ । २६) इति सूत्रोपदर्शितबुद्धिसम्बन्धाधीनकर्तृत्वादिप्रपञ्चनाानि, कर्मोपासनाकाण्डोपयोगितया तावतैव कर्मकाण्डप्रामाण्योपपत्तेः । "शास्त्रफलं प्रयोक्तरि" (मी० सू० ३ । ७ । १८) इत्यादिकमपि बुद्ध्युपहितव्यावहारिकतादृशात्मविषयम्, न पारमार्थिकमात्मविषयमिति ॥ ४० ॥ ॐ यस्य पर्णमयी जुहूर्भवति न स पाप ७ श्लोकं शृणोति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy